________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुञ्जय कल्पवृक्ष
॥२३५॥
TISTISSESZSEGESTSESERSTI
स्नानं कृत्वाऽन्यदा सर्व-भूषणानि स्व विग्रहे । परीधाय निजं देहं मुकुरे पश्यतिस्म सः ॥४६॥ दर्श दर्श तर्नु रम्या-भरणे भूषितं वरम् । दध्यौ चक्री विभात्येत-दङ्ग सुपर्ववृक्षवत् ॥४७॥ * तत उत्तारयन् देहान् मौलिप्रभृतिभूपणम् । दवदग्धमिवाङ्ग स्वं वीक्षते चक्रिराट् क्रमात् ॥४८॥ युग्मम् ॥ * उक्तं च-मौलेमौंलिमपाकरोत् श्रुतियुगात् सत्कुण्डलं कण्ठतो निष्कं हारमुरुस्थलाञ्च सहसैवांसद्वयादङ्गदे के
चकी पाणियुगाच्च वीरवलये मुद्रावलीमङ्गुली वर्गाभारमिव प्रशान्तहृदयो वैराग्यभागित्थय ॥४९॥ * फाल्गुने मासि निष्पत्र-फलपुष्पमिवांहिपम् । व्यलङ्कारं वपुर्वीक्ष्य सस्मारवं स्वमानसे ॥ ५० ॥ * कायभित्तिरियं भूषा-धर्यविच्छित्तिचित्रिता । अनित्यताजलक्लिन्ना पतत्यन्तरसारतः ॥५१॥ * अहो शरीरिणां मोहः शरीरस्यास्य दुस्त्यजः । रुक् समीरचलत्पक्व-पत्रस्येव पतिष्यतः ॥५२॥5 * त्वगियं देहिनां सारं शरीरे साप्यहनिशम् । लिप्तापि चन्दनरसैः पिच्छलत्वं न मुञ्चति ॥५३॥ * यत्कृते कुरुते लोकः पापं दुष्कर्मणेरितः । तद्देहं नलिनी पत्र-स्थितबन्धचलाचलम् ॥५४॥॥ * संसारखाले दुर्गधे श्रृङ्गाररसपिच्छले । जानन्तोऽपि निमज्जन्ति गर्ताशकरवज्जनाः ॥५५॥॥ षष्टिं वर्षसहस्राणि भ्रामं भ्रामं धरातले । कलेवरस्याऽस्य कृते धिगकृत्यं मया कृतम् ॥५६॥ धन्यो बाहुबलिवीरो धन्य अन्येऽपि बान्धवाः । यदि सारममी त्यक्त्वा संसारं मुक्तिमासदन ॥५७ ॥
22:
SSSSSSSSSZES292
M॥२३५॥
For Private and Personal Use Only