________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०/ज
॥२१५॥
SPSSESSESZSESZSESESTSESEI
* दयैव हि परो धर्मों दयैव हि परं श्रुतम् । दयां विनाऽखिलो धर्मों भवेन्निःफल एव तु ॥ ५५॥क * नाद्रियेत कृतघ्नत्व-माद्रियेत कृतज्ञताम् । स्वोपकारिणि धर्मे तदादरं कुरुते भवी ॥५६॥॥ इत्यादि धर्म-माकर्ण्य बहवो भव्यमानवाः । जगृहुः संयम स्वर्गा-पवर्गसुखदायकम् ॥ ५७ ॥ केचिच्च मानवाः श्राद्ध-धर्म द्वादशधा मुदा । आदार्जीवरक्षाद्य-तिथिदानादिकं व्रतम् ॥ ५८ ॥ तेन केवलिना भव्या बोधिता बहवः क्रमात् । शत्रुञ्जयाचले क्षिप्त्वा काऽशेष शिवं ययुः ॥ ५९॥ धरापालसुतश्चन्द्रोऽमात्यै राज्ये निवेशितः । मेदिनी पालयामास न्यायमार्गेण सन्ततम् ॥६॥ इतः प्रबोध्य भूयिष्ठ-भव्यान् धर्मे जिनोदिते । धरापालः शिवं प्राप शत्रुञ्जय-शिलोच्चये ॥ ६१ ॥ धरापालोऽगमद्यत्र मुक्तिं शत्रुञ्जये गिरौ । तत्र चन्द्रो जिनागारं शान्तिनेतुरकारयत् ॥ ६२ ।। तस्मिन् जिनालये मूर्ति शान्तेहेममयीं वराम् । सूत्सवं स्थापयामास धरापालसुतः क्रमात् ॥ ६३ ॥ चन्द्रोऽन्यदा गुरूपान्ते सम्यक्त्वस्य फलं वरम् । शुश्रावेति शिवश्रीः स्यात् सम्यक्त्वादेव देहिनाम् ॥ ६४ ॥ * सम्यग्दर्शनसंशुद्धः सत्पुमानुच्यते बुधैः । सम्यक्त्वेन विना जीवः पशुरेव न संशयः ॥६५॥ H * सम्यक्त्वं यस्य जीवस्य हस्ते चिन्तामणिभवेत् । कल्पवृक्षो गृहे तस्य कामगव्यनुगामिनी ॥६६॥क
* सम्यक्त्वालङ्-कृतो यस्तु मुक्तिश्रीस्तं वरिष्यति । स्वर्गश्रीः स्वयमायाति राज्यलक्ष्मीः सखी भवेत् ॥६७॥5
ESSISESTSS25525:25EI
॥२१५॥
For Private and Personal Use Only