________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥२१४॥
ZTET25252STTISTA
दिनानां दशकं तत्र स्थित्वा कुर्वन् महोत्सवम् । प्रासादं कारयामास धरापालो महतमम् ॥ ४२ ॥ धरापालो जिनं नाभि नन्दनं शोभनेऽहनि । स्थापयामास तत्रैव प्रासादे भूरिरैव्ययात् ॥ ४३ ।। प्रभोः कृत्वाऽर्चनां पुष्पैः प्रवरैर्वरभङ्गिभिः । ध्यानं कर्तुं महीपाल उपविष्टो वरोदयः ॥ ४४ ॥ तत्रैव ध्यायतस्तस्य भूपस्य नाभिनन्दनम् । केवलज्ञानमुत्पन्नं लोकालोकावलोककम् ॥ ४५ ॥ तत्राभ्येत्याऽमराधीशै-विहिते स्वर्णवारिजे । धरापालो गृहीत्वाऽत्र साधुवेषं छुपाविशत् ॥ ४६ ।। उपविष्टेषु भूयिष्ठ-श्राद्धेषु स च केवली । धर्मोपदेशमादातुं प्राववर्ते कृपापरः ।। ४७॥ * तथाहि-धर्मादाऽऽसाद्यते राज्यं धर्माद् देवत्वमाप्यते । धादेव शिवप्राप्तिः धर्मः सेव्यस्ततो बुधैः ॥४८॥ * धम्मो मङ्गलमुत्कृष्टं धर्मः स्वर्गापवर्गदः । धर्मः संसारकान्तारो-ल्लङ्घने मार्गदेशकः ॥ ४९ ॥ * धर्मों मातेव पुष्णाति धर्मः पाति पितेव सः । प्रीणाति पुत्रवद् धर्मः धर्मः स्नियति बन्धुवत् ॥ ५० ॥ * धर्मस्य जननी जीव-दया मान्या सुरासुरैः । तस्मात्तद्वैरिणी हिंसां नाद्रियेत सुधीर्नरः ॥५१॥ * दानं तपो देवपूजा शीलं सत्यं जपः पुनः । सर्वमप्यफलं तस्य यो हिंसां न परित्यजेत् ॥५२॥ * कण्टकेनापि संविद्धो देहो दूयेत निश्चितम् । तत्कथं शस्त्रसङ्घातैर्हन्यते हि परो जनः ॥ ५३॥ * दयां विनापि मन्यन्ते ये धर्म मूर्खशेखराः । वन्ध्यायां तनयं तेऽपि जनयन्ति विसंस्थूलाः ॥५४॥
SISTSUSESTSESESPESASESC
For Private and Personal Use Only