________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ० ॥२१३॥
STRISCIEC252TS 252ISESE
भाग्यवन्तं धरापालं मत्वा तातः सदुत्सवम् । राज्यं वितीर्य जग्राह संयमं गुरुसन्निधौ ॥३०॥ पालयन् संयमं भूप-यतिः शत्रुञ्जये गतः । क्षिप्त्वा काखिलं मुक्ति-नगर्या समुपेयिवान् ॥३१॥ खड्गविद्याप्रभावेन साधयन् पृथिवीं क्रमात् । धरापालः ससाधाऽऽशु भुवः खण्डवयं स्फुटम् ॥ ३२ ॥ एकदा तस्य देहेऽभृद् गलत्कुष्टाभिधाऽऽमयः । ततः सो विदधे नाना-प्रकारान्यौषधानि च ॥३३॥ नाभूद् गुणस्ततः प्राणांस्त्यक्तुं चितां महत्तराम् । विधाय विशति-स्माग्नौ कुमारो मारसन्निभः ॥ ३४॥ तदाऽकस्मात् खगस्तत्रा-भ्येत्य प्राहेति तं प्रति । त्वं किं प्राणांस्त्यजेदानी प्रविश्य ज्वलने वद ॥३५॥ स्वस्मिन् रोगस्वरूपे तु प्रोक्ते तेन खगो जगौ । शत्रुञ्जये जिनस्नात्र-वारि यद्विद्यते वरम् ॥३६॥ तेन कुष्ठं मदीयाङ्गाद् गतं तमो रवेरिव । तदम्बुना वपुस्त्वं वाऽभिषिञ्चाभ्येत्य तत्र च ॥३७॥
त्वदीयो विग्रहो रोग-रहितः सहितः श्रिया । भविष्यत्यचिरात्तीर्थ-प्रभावात् सिद्धपर्वते ॥३८॥ H * यतः-" टङ्कणेन यथा हेम जलेन लवणं यथा । तथा शत्रुञ्जयस्मृत्या कर्मपको गलत्यहो ? ॥१॥॥
* तमो यथोष्णरुचिना पुण्येन च दरिद्रता । तथा शत्रञ्जयस्मृत्या विनश्यति कुकर्म तत् ॥३९॥॥ 4* कुशिलेन यथा शैलः सिंहनेव कुरङ्गकः । तथा शत्रजयस्मृत्या भिद्यते पूर्वकर्म तत् ॥४०॥॥
आकण्यैतत् खगप्रोक्तं धरापालः ससोदरः । मेलयित्वा बहुं सधं चचाल शोभनेऽहनि ॥४१॥
SOSTSPSSESESSESPITE
।।२१३
For Private and Personal Use Only