________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ २१२ ॥
1952555!
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धरापालोsनमद्यावद्योगिनां तावता स च । ध्यानं मुक्त्वा जगौ वस्स ! स्वागतं तव विद्यते ॥ १७ ॥ विद्या दातुं मया तुभ्यं त्वमानीत इहाधुना । अभोजयत्ततो योगी सारां रसवतीं च तम् ॥ १८ ॥ मत्वा तमुत्तमं खड्ग- सिद्धिविद्यां स योगिराट् । धरापालाय भूपाल पुत्राय प्रददौ मुदा ॥ १९ ॥ ततो वपू स्यात्यक्त्वा योगी विशदमानसः । सुरलोकं ययौ यावत्तावत् स विस्मितोऽजनि ॥ २० ॥ तदा सोsपि धरापालो ददर्श न च योगिनम् । वनं पश्यन् ययौ द्रष्टुमग्रे कौतुकमादरात् ।। २१ । ततो गच्छन् पुरः कूप-मन्तर्वर्ति बकस्थलम् । ददर्श च नरं तत्र जलस्थं रुचिराकृतिम् ॥ २२ ॥ स च प्राह धरापाल ! यद्यस्तीच्छा तव श्रिये । तदाऽत्राऽऽगच्छ दास्यामि तुभ्यं सिद्धि गरुत्मनः ॥ २३ ॥ कृत्वा साहसं यावद् झम्पां कूपे ददौ स्यात् । तावत्कूपोऽभवद् हेम-मयपीठं महत्तमम् ॥ २४ ॥ ततोऽभूत् विस्मितो भूप-सुतो यावत् स्वचेतसि । तावत्तत्रागतो देवो जगादेति च तं प्रति ।। २५ ।। स्वत् साहसेन तुष्टोऽस्मि वरं वृणु यथेप्सितम् । कुमारः प्राह कल्याण-सिद्धि देहि ममाधुना ॥ २६ ॥ ततस्तुष्टेन देवेन स्वर्णसिद्धिर्मनोहरा । ददे तस्मै धरापाल कुमाराय महात्मने ॥ २७ ॥ ततोऽभ्येत्य धरापालो गिरिदुर्गपुरे भ्रमन् । ननामाम्बापितृभ्रात् पादान् विनयपूर्वकम् ॥ २८ ॥ सम्प्राप्तमविद्यादि-सम्बन्धं निखिलं तदा । प्रोक्त्वा प्रमोदयामास पित्रादीन् स्वजनानपि ॥ २९ ॥
For Private and Personal Use Only
S2525:
॥ २१२ ॥