________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ २११॥
2SESTSESESESTSEST22SSESE
हसतो जल्पतो भूमौ लुठतो रुदतः सुतान् । या पालयति वामाक्षी सैव धन्या सुभाग्यभाग् ॥५॥ * यतः-उत्पतन्त्रिपतद् रिंखन् हसन् लालावली वमन् । कस्याश्चिदेव धन्यायाः क्रोडमायाति नन्दनः ॥६॥क स एव पुत्रः पुत्रो यः कुलमेव न केवलम् । पितुः कीति च धर्म च गुणांश्चापि विवर्द्धयेत् ॥ ७ ॥ ततो राझ्या जिनेन्द्रार्चा कुर्वत्याः प्रतिवासरम् । सुरपाल-धरापालौ सुतौ जातौ मनोहरौ ॥८॥ समस्तनृकलादक्षौ समरूपौ सहोदरौ । द्वावपि प्रीतिसंयुक्तौ जातौ कुशलवाविव ॥९॥ गुरुपार्वे सदा तौ तु शस्त्रशास्त्रकलाः कलाः । अधीयानौ पितुर्मातु-र्जातौ प्रमोददायकौ ॥१०॥ * यतः-" विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे निधनं यान्ति काकाः कापुरुषा नराः ॥१॥ बह्वी पाङ्गजाः पित्रा रुचिरोत्सवपूर्वकम् । सुरपाल-धरापालौ क्रमेण परिणायितौ ॥११॥ मानी यशस्वी तेजस्वी विनीतो नीतिरीतिवद् । सर्वैर्गुणैर्धरापालः सुरपालादभूदरः ॥ १२ ॥ निशाशेषेऽन्यदोन्निद्रो धरापालो नृपाङ्गजः । ददर्श काननं घोरं नानाश्वापदसङ्कुलम् ॥ १३ ॥ क्वचित् शूकरवृन्दानि मातङ्गानां घटाः क्वचित् । क्वचित् मृगारिसञ्चारं स तत्रापश्यदुन्मनाः ॥१४॥ क्वचिच्चन्द्राश्म-सूर्याश्म-मयान् सुधवलालयान् । मणिहेमौघसम्पूर्णान् धरापालो ददर्श च ॥१५॥ विलोकयन् वनं हेम-मये धवलसद्मनि । अद्राक्षीद्योगिनं पद्मा-सनासीनं नृपाङ्गभूः ॥१६॥
525252S2S252525525525
For Private and Personal Use Only