________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एवं सम्यक्त्वमाहात्म्यं श्रुत्वा चन्द्रमविपतिः । मुक्तिगमोचितं पुण्य-मर्जयामास वेगतः ॥ ६८ ।। मृत्वाऽऽद्यताविषे गत्वा लक्ष्मीपुर्या महीपतेः । भीमस्य मदनः पुत्रोऽजनिष्ट जिनधर्मकृत् ॥ ६९ ॥ क्रमाच्छत्रुञ्जये गत्वा श्रीनाभेयार्हतः पुरः । ध्यानं कुर्वन् ययौ मुक्तिं सर्वकर्मायुषां क्षयात् ॥७० ।।
शत्रुजय कल्पवृ०
॥२१६॥
TESTSELE2525252525252525
श्री नीलपुत्र-सम्बन्धः । राजादन्या अधः स्वामी वृषभः सुरसेवितः । पावयन् पृथिवीं सिद्ध-पर्वते समवासरत् ॥१॥ द्वितीयो गणभृच् चन्द्र-सेनो भूयिष्ठसाधुयुम् । तत्र तीर्थे समायातो नन्तुं तीर्थ जिनान् पुनः ॥२॥ जतिन्यः सुन्दरीमुख्या वह्वयो भासुरभावतः । तीर्थ नन्तुं समायाताः भूरिसाध्वीनिसेविताः ॥३॥ एकदा वृषभं नत्वा चन्द्रसेनो गणी जगौ । अस्य तीर्थस्य माहात्म्यं जल्पतां भगवन् ! ध्रुवम् ॥४॥ प्रभुर्योजनगामिन्या वाण्या मधुरया तदा । जगाद तीर्थमाहात्म्य-मेवं गणभृतः पुरः ॥५॥ * प्राणिभियं समारूढे-लोकाग्रमतिदुर्लभम् । अवाप्यते स तीर्थेशः शाश्वतोऽयं गिरिवरः ॥ ६ * अनादितीर्थमेतद्धि सिद्धास्तीर्थकृतोऽत्र च । अनन्ता मुनयश्चापि क्षिप्त्वा स्वं कर्मसश्चयम् ॥७॥
2SPSS2SPSSPGOSPSESESES26
॥२१६॥
For Private and Personal Use Only