________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
॥२०७॥
525SCSESZSESTSESTSZSE
उक्तं च-"पल्योपमसहस्रं तु ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसश्चितम् ॥१॥" लाघवात् कर्मणां शत्रुञ्जयमाहात्म्यसंशृतेः । जातजातिस्मृतिः सप्पोऽस्मार्षीत पूर्वान् भवान् निजान् ॥ ४५ ॥ मया पत्नी सुतः पुत्री सैरभिनिहता पुरा । तेनाहं नरके पातं भूरि प्रापमशर्म च ॥४६ ।। ततो बिलाद् विनिर्गत्य स सर्पः कुण्डलीभवन् । ननामांही मुनेहेतुं स्वस्य कल्याणसम्पदः ॥ ४७ ॥ तदा तत्रागतानां स्व-गामिनां पुरतो मुनिः । श्रीशत्रुञ्जयतीर्थस्य नमस्कृतिफलं जगौ ॥४८॥ शत्रुञ्जयस्य तीर्थस्य स्मरणात् स्पर्शनान्नतेः । दर्शनाज्जायते नृणां कल्याणकमला करे ॥ ४९ ॥ पल्योपमसहस्रंतु ध्यानाल्लक्षमभिग्रहात् । दुःकर्म क्षीयते मार्गे सागरोपमसञ्चितम् ॥ ५० ॥ शत्रुञ्जयं स्मरन् सपो मुनेर्वन्दनतस्तदा । ललावनशनं विद्या-धराणां पश्यतां पुरः ॥५१॥ स सर्पस्तैः खरौर्नीतः पुण्डरीका भिधेऽचले । श्रावितश्च नमस्कारं मृतोऽभून्निर्जरेश्वरः ॥५२॥ * यतः-कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य तिर्यश्चोऽपि दिवं गताः ॥५३॥॥ एतन्मेऽङ्गमहिभवं सर्पजीवोऽस्म्यहं पुनः । अस्य तीर्थस्य माहात्म्यात् शक्रोऽहमभवं किल ॥ ५४ ।।
ततः शक्रो निजं सर्पदेहं शत्रुञ्जये गिरौ । लसच्चन्दनकर्पूर-काष्ठेर्दहनसाद् व्यधात् ॥ ५५ ॥ । सर्पदाहावनौ रत्नमयं पीठं सुरेश्वरः । विधाय तीर्थमानम्य ययौ शक्रो निजास्पदम् ॥५६॥
PSSISSZS2S2552555:SESE
॥२०७॥
For Private and Personal Use Only