SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - शत्रुञ्जय कल्पवृक्ष ॥२०६॥ HESESISEASESISESSESSEEISTE ततः-सभीजन् विप्रः सौरभ्या-स्खलितोऽध्वनि । तामप्यहन् स गां स्फार-पाषाणेन दुराशयः ॥३६॥ हत्वैतानि द्विजो गच्छं स्तलारक्षधृतः करे । छलान्नंष्ट्वा वजन् कूपे न्यपतन् नरकोपमे ॥३७॥ स पतन खण्डशो जात-स्तथा यातो मृति यथा । नरकं सप्तमं प्राप दुःखलक्षप्रदायकम् ॥३८॥ * यतः-“पुरुषः कुरुते पापं बन्धुनिमित्तं वपुनिमित्तं च । वेदयते तत् सर्व नरकादौ पुनरसावेकः ।।१॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥२॥" सहित्वा तत्र दुःखानि स द्विजो निर्गतस्ततः । सिंहोऽजनिष्ट दुष्टात्मा जन्तून् हन्ति स्म निर्दयम् ॥१॥ ततो मृत्वा गतः श्वभ्रे चतुर्थे स द्विजासुमान् । ततो निर्गत्य चाण्डालोऽजनि ग्रामे रमाभिधे ॥ ३९ ॥ तत्र कृत्वा तमो भूरिचाण्डालः क्रूरकर्मकृत् । मृत्वा च सप्तमे श्वभ्रे जगामासुखदायके ॥ ४० ॥ तीवदुःखानि सम्भोज्य तत्रैव नरकेऽनिशम् । वने भीमेऽभवद् दृष्टिविषोऽहिर्दुष्टमानसः ॥ ४१ ॥ सोऽन्यदाहिबिलाऽऽसन्नं मुनि शान्तात्ममानसम् । निरीक्ष्य फूत्कृति कुर्वन् दधाव दशनेच्छया ॥ ४२ ॥ तदाऽपश्यन्नहिः साधु शान्तं सुस्थितमानसम् । शत्रुञ्जयस्य माहात्म्यं वरविद्याभृतां पुरः ॥४३॥ शत्रुञ्जयस्य तीर्थस्य स्मरणात् स्पर्शनात् पुनः । दर्शनान्निवृतिहस्त-गता नृणां भविष्यति ॥ ४४ ॥ mmmmmmmmmmmmmmmmmmmmmmiammmmmmmmmmmmmmmmmmmmmmm 52STISESTG SSD1259S5251 - ॥२०६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy