________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इत्थं विज्ञाय सर्पस्य चरितं शक्र.जल्पितम् । आवां गत्वा तु वैताढथे प्रप्रच्छर्य जनकाम्बिके ॥ ५७ ॥ दीक्षां श्रीवृषभोपान्ते लास्वा शाखाणि भूरिशः । पठित्वा वृषभादेशा-दागताविह साम्प्रतम् ॥५८ ॥ युग्मम् ॥ शत्रुञ्जयस्य माहात्म्य-माकर्ण्य भरतेश्वरः । नन्तुं शत्रुञ्जयं चक्रे स्वान्तं कल्याणशर्मणे ।। ५९ ॥ सर्पजीवः क्रमाच्छक भवाद्भवे त्रयोदशे । सर्वकर्मक्षयान्मुक्ति-पुर्या यास्यति निश्चितम् ॥ ६ ॥
शत्रुजय कल्पवृ०
।।२०८॥
ISESESZSESESZSEST2SSZE
mananews
श्री सुधासेन-भूपकथा । एकदा वृषभोपान्ते भरतः प्रोक्तवान् प्रभो ! । कोऽधुनाऽगात् शिवं सिद्ध शैले स्वामी जगौ ततः ॥१॥ पद्मपुरे धरापालो भूपतिः पालयन् प्रजाः । ययौ शत्रुञ्जये शैले कुर्वन् क्रीडा वनेऽनघे ॥२॥ तत्र साधु सुधासेनं तपस्यन्तं तपो बहु । दृष्ट्वोत्पन्नरुषो हन्तु-मुत्पाट्याधात् करं निजम् ॥३॥ शिलातले सुधासेनं भूयो भूयो महीपतिः । यदैवं स्फालयामास तदा दध्याविदं यतिः ॥४॥ रे जीव ! भवता भूरि पापं जीववधात्पुरा । यच्चक्रे तत् समायात-मधुनैतत ताडनात्तव ॥ ५॥ रे जीव ! न त्वया क्रोधः कार्यः कस्योपरि ध्रुवम् । यतः स्याद् भ्रमणं भूरि संसारे विषमे क्रुधः ॥६॥
2S2SESTSSTSESESTSESTSEE
॥२०८॥
For Private and Personal Use Only