SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१९५॥ SE252525252525252525252S * ततचिल्लणमुनिना वीक्ष्य लाभं सुविद्यया । प्रादुश्चक्रे सरो वारि-पूर्ण सद्योगतस्तदा ।। १३३ ॥ * स्वादं स्वादं जलं तत्र सद्यो वितृपिस्तदा । सुस्थितोऽजनि सर्वज्ञ-मतं प्रशंसति स्म च ॥१३४ ॥॥ * श्रीसङ्घस्य हितायाशु चिल्लणो यत् सरो व्यधात् । चिल्लणाख्यमभूत् ख्यातं तदद्यापि जनेऽभितः ॥१३५॥ चिल्लणः सुमुनिस्तत्र तीर्थे ईर्यापथं स्फुटम् । प्रतिक्रमन् पुनीर-जीवानक्षामयद् बहु ॥ १३६ ।। निन्दन् स्वयं कृतं पापं पयो-विकुर्वणादिकम् । चूर्णीचक्रेऽखिलं कर्म-पुजं पूर्वभवार्जितम् ॥ १३७॥ अष्टकर्मक्षयात्तस्य चिल्लणस्य मुनेः क्षणात् । उत्पन्न केवलज्ञानं मुक्तिस्तत्राभवत्क्रमात् ॥ १३८ । यत्रागात् स मुनिर्मुक्तिं तत्राद्यश्चक्रिराइ मुदा । चिल्लणाख्यं विहारं तु कारयामास सुन्दरम् ॥१३९ ।। भृङ्गारस्थालकलश-च्छत्रचामरदीपकान् । विभूषणारात्रिकाणि जिनार्चाये मुमोच सः ॥१४०॥ यत्ः-कारयन्ति जिनानां ये तृणावासानपि स्फुटम् । अखण्डितविमानानि ते लभन्ते त्रिविष्टपे ॥१४१॥ काष्ठादीनां जिनावासे यावन्तः परमाणवः । तावन्ति पल्यलक्षाणि तत्कर्ता स्वर्गभाग्भवेत् ॥१४२ ॥ ततः प्रथममालां तु इन्द्रमालाभिधां बराम् । चक्री परिदधाति स्म नानोत्सवपुरस्सरम् ॥१४३ ॥ * तुष्टो यस्यास्त्ययं शैलः कामधेनु-सुरद्रुमाः । चिन्तामण्यादयस्तस्य सर्वे तुष्टाः समन्ततः ॥ १४४ ॥ सिद्धाद्रि-सर्वशृङ्गेषु प्रासादा निखिलार्हताम् । चक्रिणा कारिता भूरि रैव्ययान्मुक्तिहेतवे ॥१४५॥ SSSSSSSSSZSSTSATTISSUS ॥१९५॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy