________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
॥१९४॥
STSPITZETSUSTEST
तदादिमद्वितीयस्वः-शक्रौ च मरो बलिः । नत्वाऽऽदिमं जिनं सार्व-भौम नेमुः कृताऽऽदराः ॥१२०॥ उक्तश्च-चमरेन्द्रवलीन्द्राद्याः सर्वे भवनवासिनः । सेवन्ते यं सदा तीर्थराजं सद्भक्तिभाविताः ॥ १२१ ॥ अणपन्नी पणपन्नी-मुख्या व्यन्तरनायकाः । सेवन्ते यं सदा तीर्थराज सद्भक्ति भाविताः ॥ १२२ ॥ ज्योतिषां वासवौ चन्द्र-सूर्यावन्येऽपि खेचराः । सेवन्ते यं सदा तीर्थराज सद्भक्ति भाविताः ॥ १२३ ॥ मनुष्यलोकसंस्थाना वासुदेवाश्च चक्रिणः । सेवन्ते यं सदा तीर्थराज सद्भक्ति भाविताः ॥१२४॥ इन्द्रोपेन्द्रादयोऽप्येते सिद्धा विद्याधराधिपाः । सेवन्ते यं सदा तीर्थराज सद्भक्ति भाविताः ॥ १२५॥ ग्रैवेयकानुत्तरस्था मनसा त्रिदिवौकसः । सेवन्ते यं सदा तीर्थराज सद्भक्ति भाविताः ॥ १२६ ॥ एवं त्रैलोक्यसंस्थाना ह्येते नरसुरासुराः । सेवन्ते यं सदा तीर्थ-राजं सद्भक्ति भविताः ॥ १२७ ॥ वापीकूपतडागानि दीधिकापल्वलानि च । जलस्थानानि भान्ति स्म यत्रोद्यानानि चोच्चकैः ॥ १२८ ॥ आरोहति गिरि सङ्घ नन्तुं जिनेश्वरान् द्रुतम् । सुधर्मगणभृच्छिष्यः चिल्लणो नाम सत्तमः ॥१२९ ॥ पश्चिमेनाध्वना भूरि-साधुलोकसमन्वितः । अर्द्धमागें ययौ यावत् सङ्घोऽभूत्तषितस्तदा ॥ १३ ॥ तदाऽतिवृषितः सङ्घ-चिल्लणं मुनिमूचित्रान् । विनाऽम्बु साम्प्रतं प्राणा यास्यन्ति नो मुनीश्वर ! ॥१३१ ॥ भवत्पादप्रसादेन जीवितं जायते यदि । तदाऽस्माभिर्जिनाधीशो वन्द्यते शिवशर्मदः ॥१३२ ॥
85725259225PSSSSSSSS
॥२५॥
For Private and Personal Use Only