________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
'कल्पवृ०
॥१९३॥
ESOSTSESTSETTSE252SSZS2
ये पुण्डरीकमीक्षन्ते पुण्डरीकमिवोज्ज्वलम् । ते त्यजन्त्येनसां पुञ्ज पुण्यामृतपवित्रिताः ॥१०७॥ इत्युक्त्वा कुसुमैलाजैर्वर्यैः शत्रुञ्जयाचलम् । वर्द्धयित्वाऽऽरोहाशु कुर्वन् महोत्सवं नृपः ॥१०८॥ शत्रुञ्जयादितीर्थेभ्यः पय आनीय सुन्दरम् । स्नात्रं कृत्वाऽर्हतश्चकी पुष्पैरभ्यर्चयन् मुदा ॥१०९॥ * मालायाः परिधानस्य क्षणेऽवग भरतं हरिः । त्वं श्रीवृषभपुत्रोऽसि मुक्तिं गन्ता भवेत्र हि ॥ ११० ॥ * अतो मे दीयतां माला वृषभस्य जिनेशितुः । अत्याग्रहात्तदा चक्री मालां शक्राय दत्तवान् ॥ १११॥ * ततो यदा हरिर्मालां परिधत्ते स्म भावतः । तदोचे मनुजैरिन्द्र-मालां परिदधे हरिः ॥११२॥5 * ततस्तस्याश्च मालाया इन्द्रमालाभिधा जनैः । विश्राणिता ततोऽद्यापि शक्रमाला निगद्यते ॥ ११३ ॥ आरात्रिकं च मङ्गल-प्रदीपं विधिवत्तदा । चक्री कृत्वा व्यधाचार्चा स्तुति स्फारतरैः स्तवैः ॥११४॥ जीवाभिगमेऽप्युक्तं- वरपुप्फगंधअक्खयपईवफलधूवनीरपत्तेहिं । नेविजविहाणेहिं अ जिणपूआ अट्ठहा होइ ॥११५॥ गंधोदएण हवणं पूआ अट्ठविह मंगलाई च । आरत्तिगाइमाई कायव्वं सचमणुदिअहं ॥१६॥" एवं यात्रां विधायाथ चक्रथागत्य निजे पुरे । पपाल पृथिवीं न्याय-मार्गेण जनताहितः ॥१७॥ पुनः सङ्घ महान्तं तु कृत्वा प्रथमचक्रिराट् शत्रुञ्जये ययौ नन्तुं युगादिजिनपुङ्गवम् ॥११८ ।। पूजां य वरपयःपुष्पैः धूपोत्क्षेपनकैः पुनः । चक्रे प्रथमचक्रीशः प्रथमस्य प्रभोर्यदा ॥११९ ॥
252STSCUSSESS2925525
R॥१९३॥
For Private and Personal Use Only