________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१९२॥
TSSEZSE2525252525252
श्रस्वेति स्वामिनो वक्त्रात् चक्री प्रोल्लासिताशयः । आजुहाव वह सर्व प्रेष्य कुछकुमपत्रिकाः ॥ ९४ ॥ अष्टाह्निका महः सार्व प्रासादेषु पृथक् पृथग् । यदा चक्री व्यधाच्छक-स्तदागात्तत्र ताविषात् ।। ९५ ॥ विम्ब रत्नमयं स्वर्ण-देवमन्दिरमध्यगम् । वासवः सार्वभौमाय दत्तवान् स्नेहपूर्वकम् ॥ ९६ ॥ मणिमयैः स्वर्णमयै-र्यकाष्ठमयै पुनः । सहस्रप्रमितैर्देवा लयैर्मध्यगतीर्थपैः ॥ ९७ ॥ रथस्थैवामरैर्वीज्य-मानश्छत्रविराजितः । चक्री गुरुयुतोऽचालीत शत्रजयं गिरि प्रति ॥ ९८ ॥ युग्मम् ॥ तस्मिन् सङ्घऽभवन् सङ्घा-धिपाश्चत्वार एव च । महीधराश्च बहवो राजानो धनिनो वराः ॥ ९९ ।। सङ्घन तिलकं भाले भरतस्य सदुत्सवम् । चक्रे शक्रस्ततोऽन्येषां सङ्घशानां पृथक पृथग् ॥१०॥ ग्रामे ग्रामे जिनेन्द्रार्चा कुर्वाणश्च पुरे पुरे । सुराष्ट्रासु ययौ चक्री यावत् कुर्वन् महोत्सवम् ॥१०१ ॥ तावद्भरतभूपस्य भ्रातृव्यो विशदाशयः । सुराष्ट्रस्य सुतः शक्ति-सिंहः सन्मुखमागमम् ॥१०२॥ भरतस्यानमत्पादौ शक्तिसिंहो महीपतिः । ततस्तस्य व्यधाच्चक्री दोामालिङ्गनं दृढम् ॥१०३॥ चक्री जगौ भवान् धन्यः पुण्यवान् प्रवराशयः । यतः शत्रुञ्जय तीर्थ विद्यते त्वदृशोः सदा ॥१०४॥ धन्याः सौराष्ट्रका लोका एते सुकृतिनः खलु । ये नित्यं पुण्डरीकादि निकषा निवसन्ति हि ॥१०५॥ अस्य तीर्थस्य सच्छाया स्पृष्टाऽपि प्राणिनां सदा । हरते भूरिपापानि ददते सुखसन्ततिम् ॥ १०६ ॥
BESTG2252525TSSES2SCSdse
॥ १९२ ।।
For Private and Personal Use Only