________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ १९१ ॥
25252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र रत्नमये बिम्बे नाभेय- पुण्डरीकयोः । अस्थापयत् शुभे लग्ने चक्री वृषभनन्दनः ॥ ८१ ॥ नेमिवर्ज्या जिना अन्ये द्वाविंशतिः सुरार्चिताः । शत्रुज्जये समेष्यन्ति पावयन्तो महीं क्रमात् ॥ ८२ ॥ श्रुत्वेति चकराट् तेषां द्वाविंशति जिनालयान् स्वर्णरूप्यमयान् भूरि-लक्ष्मीव्ययादचीकरत् ॥ ८३ ॥ तेषु देवालये व नेमिवजन जिनेश्वरान् । द्वाविंशतिं मणिस्वर्ण-मयान् न्यवीविशन् मुदा ॥ ८४ ॥ तेषां जिनेन्द्रबिम्बानां चन्द्रगच्छाधिपान्तिकात् । प्रतिष्ठां कारयामास भूरिसङ्घसमन्वितः ।। ८५ ।। एकदा वृषमात् श्रुत्वां माहात्म्यं सिद्धभूभृतः । सङ्घाधिपपदं वाञ्छन् जगादेति कृताञ्जलिः ॥ ८६ ॥ स्वामिन्! सङ्घाधिपपदं कथं सम्प्राप्यते जनैः ? । स्वामी जगाद भरत ! शृणु सम्प्रति भूधव ! ॥ ८७ ॥ न प्राप्यते विना भाग्यं सङ्घाधिपपदं जनैः । प्राप्यते भाग्यतः सङ्घ- नाथस्य पदवी खलु ॥ ८८ ॥ ऐन्द्रं पदं चक्रिपदं श्लाघ्यं श्लाघ्यतरं पुनः । लभ्यते प्राणिभिर्भाग्यात् सङ्घनाथपदं पुनः ॥ ८९ ॥ तीर्थङ्कर नामगोत्र - मर्जयत्यतिदुर्लभम् । भूत्वा सङ्घपतिर्भव्य जीवो विशदमानमः ।। ९० ।। चतुर्विधेन सचेन सहितः शुभवासनः । अधिरोप्य रथे सार्व विम्बानि लसदुत्सवम् ॥ ९१ ॥
* यतः - यच्छन् पञ्चविधं दान-मुद्धरन् दीनसञ्चयम् । पुरे पुरे जिनागारे कुर्वाणो ध्वजरोपणम् ॥ ९२ ॥ शत्रुञ्जयादितीर्थेषु यो गत्वा श्री जिनार्चनम् । करोति लभते मुक्ति सातं स एव वेगतः ॥ ९३ ॥ त्रिभिर्विशेषकम् ॥
For Private and Personal Use Only
525525525:525
॥ १९१ ॥