________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ततो लेपो गुरूपान्ते श्रावकप्रतिमां सदा । कुर्वन्नर्जयति श्रेयो महोदयगमोचितम् ॥ ४६॥ * दंसण-वय-सामाइअ-पोसह-पडिमा-अबंभ-सञ्चित्ते । आरंभ पेस-उद्दिट्ठवजए समणभूए अ ॥४७॥॥ इत्यादि प्रतिमां कृत्वा स्वर्णकोटीर्दश द्रुतम् । त्यक्त्वा ममान्तिके दीक्षां जग्राह शुभभावतः ॥४८॥ तस्य लेपयतेर्ज्ञानं केवलं शुभभावतः । बभूव साम्प्रतं गच्छभृद् ! गौतमगुणाकर ! ॥ ४९ ॥ श्रुत्वेति स्वामिनः पार्वे साधवो बहवस्तदा । संप्राप्त केवलज्ञाना ययुः शत्रुञ्जये शिवम् ॥५०॥ ततो वीरजिनोऽन्यत्र विहारं कृतवाँस्तदा । गौतमोऽपि गणाधीशो भव्यान् भूरीन् प्रबोधयन् ॥५१॥
शत्रुञ्जय कल्पवृ०
॥१७६॥
ASEESZESTSESTST2S2S2592
52525252525252525252SSS.
श्री नेमिनाथस्य शत्रुञ्जयगिरेरू/नारोहणस्वरूपम् ।
अन्यदा विहरन्नेमिनाथो विमलभूभृतः । उपत्यकाक्षितौ देव-सहितः समवासरत् ॥१॥ तत्र प्रबोध्य भूयिष्ठ-भव्यजीवान् जिनेश्वरः । अनारुह्य गिरेरूचं व्यहार्षीदन्यनीति ॥२॥
IM||१७६॥
।
For Private and Personal Use Only