________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१७५॥
SISESESESRSISC252SSIST
H प्रशंसां कुर्वते श्राद्धा लेपोऽयं पुण्यवान् धनी । इहामुत्र सुखश्रेणी ललिष्यति न संशयः ॥ ३४ ॥
लेपो लोकोदितं नैव चित्ते धारयति ध्रुवम् । किन्तु धम्म जिनः प्रोक्तं कुरुते प्रतिवासरम् ॥३५॥ * यत-" सर्वथा स्वहितमाचरणीयं, किं करिष्यति जनो बहुजल्पः ? |
॥ विद्यते स नहि कश्चिदुपायः, सर्वलोकपरितोषकरो यः ॥३६॥ शिवभूतिमितस्तत्रा-यान्तमाकर्ण्य दूरतः । संमुखं न समायातो लेपो नन्तु गुरुक्रमौ ॥ ३७॥ ततः स तापसो रुष्टो दध्यावेवं निजे हृदि । अयं पाप्यभवज्जैन धर्मस्याश्रयणाद् ध्रुवम् ॥ ३८ ॥ पुरमध्ये समायातः शिवभूतिः स तापसः । लेपमनागतं नन्तुं ज्ञात्वा रुष्टोऽभवद् भृशम् ॥ ३९ ॥ आहूतो न यदा लेपो गुरुणा(गतो) शिवभूतिना । तदा तत्र स्वयं गत्वा लेपं प्रति जगौ गुरुः ॥ ४० ।। रे दुष्टात्मन् ! त्व(स)मुत्थान-नमनादिक आदरः । न त्वया विहितस्तेन दुर्गतिस्ते भविष्यति ॥ ४१ ॥ लेपः प्राह वितन्वानो धर्म स्नानादिकं सदा । कारयन्ननुजानंश्च दुर्गतिं श्राग् गमिष्यति ॥ ४२ ॥ संवत्सरेण यत्पापं कैवर्तस्य च जायते । एकाहेन तदाऽऽप्नोति अपूतजलसङ्ग्रही ॥४३ ।। चित्तमन्तर्गतं पापं तीर्थस्थान ने शुद्धयति । शतशोऽपि जलै—तं सुराभाण्डमिवाशुचि ॥४४॥ ततः स तापसः प्राह वयं ते न भविष्यति । शापं दत्त्वेति लेपाय तपस्वी स्वाश्रयं ययौ ॥ ४५ ॥
PS2525252SSES2S225252SSE
For Private and Personal Use Only