________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ १७७॥
STEPSIS5ISSSSSSESPst
मणिरूप्पकणयपडिमं जत्थ रिसहचेइअं भरहविहिअं ।
सदुवीसजिणाययणं सो विमलगिरी जयउ तित्थं ॥११॥ व्याख्या-यत्र तीर्थे शत्रुञ्जयाख्ये 'ऋषभचैत्यं' नाभेयचैत्यं काञ्चनमयं भरतेन स्फारं कारितं, तस्य परितो हेममयानि द्वाविंशतिः जिनायतनानि-जिनालयानि देवकुलिकाः कारितानि, तत्र मुख्यप्रासादे मणिमयी श्रीऋषभजिनप्रतिमा पुण्डरीकप्रतिमा च कारिते, अन्येषु जिनगृहेषु नेमिनाथवर्जिता अजितादिवीरजिन-पर्यन्ता मणिरूप्यकनकप्रतिमाः स्थापिताः, स विमलगिरिः पर्वतो जयतातीर्थम् ॥ अत्र विमलवाहनादि-कुलकर, श्रीऋषभजिनजन्म, युगलधर्मनिवारणं, राज्यादिस्थापना, नन्दा-सुमङ्गलापत्नीद्वयपाणीग्रहः, शतपुत्रपुत्रीद्वयभवनं, भरतादिपुत्रराज्यार्पणं, संयमग्रहणं, केवलज्ञानप्राप्ति यावत् श्रीऋषभचरित्राद् वाच्यम्अयोध्यावहिरुयाने विहरन्नादितीर्थकृत् । भूनिकोटियतिस्वर्गि-सेवितः समवासरत् ॥१॥ तत्रादिमजिनाधीश-समीपे श्रोतुमागमम् । भरतश्चक्रिराट् सार-परिवारः समागमत् ।। २॥ . धर्मोपदेशोऽत्र-"धम्मिइढी भोगिइढी पाविढी इय तिहा भवे इड्ढी ।
सा धम्मिइढी भन्नइ जा दिज्जइ धम्मकज्जेसु ॥३॥ सा भोगिइढी गिज्जइ सरीरभोगम्मि जीइ उवओगो । जा दाणभोगरहिया सा पाविड्ढी अणत्थफला ॥४॥
SSSSESSESSESS2525252SSES
॥६७७n
For Private and Personal Use Only