________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
* णमोत्थु णं समणस्स भगवओ महावीरस्स * ॥ पू. आगमोद्धारक-आचार्यश्री आनन्दसागरसूरीश्वरेभ्यो नमः ॥ तपोगणाधीश-श्रीधर्मघोषसूरिवररचितः-श्रीशुभशीलगणिविहितवृत्तियुतः
* श्री शत्रुञ्जय-कल्पः *
कल्पवृ०
SEPSSSSSSSESSESEER
SS SST GEGESESTSDOCSESC
यस्यादेशादुपेत्य प्रथमगणधरः पुण्डरीकाभिधानः, सिद्धाद्रौ पञ्चकोटीमितयतिसहितः केवलज्ञानमाप्य । श्रेयःपुर्यामयासीदमरनरपतिश्रेणिसंसेविताघ्रिः, स श्रीमानादिदेवः शिवसुखमचिरात् प्राणभाजां प्रदेयात् ॥१॥ यत्र तीर्थेऽखिलं कर्म-राशिं क्षिप्त्वा चिरार्जितम् । असङ्ख्या यतयो जग्मु-र्यास्यन्ति च शिवश्रियम् ॥ २ ॥ तस्मिंस्तीर्थे जिनाधीशान् वृषभादीन् सुरार्चितान् । नृणां पूजयतां ध्यानं कुर्वतां शिवशं (दं) भवेत् ॥ ३॥ यतः शत्रुञ्जये दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ॥ ४॥
For Private and Personal Use Only