________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
।
शत्रुजय
कल्पवृ०
॥२॥
SRESTSESTSESTLT252550
पल्योपमसहस्रं तु ध्यानाल्लक्षममिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसञ्चितम् ॥५॥ सिद्धाद्रौ पक्षिणः सन्ति क्षुद्रा अन्ये ऽपि येऽङ्गिनः। हिंसका अपि सेत्स्यन्ति ते भवैखिभिरुत्तमाः ॥६॥ तावद् गर्जन्ति हत्यादि-पातकानीह सर्वतः । यावच्छत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् ॥७॥ शास्त्रान्तरेऽप्युक्तं-अष्टषष्टिषु तीर्थेषु यात्रया यत्फलं भवेद् । आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ८॥ इत्यादि भूरिशो यस्य माहात्म्यं श्रूयते जने । तस्य तीर्थस्य वयेत तत्कथं मन्दबुद्धिभिः ॥९॥ सुधर्मस्वामिना यस्य माहात्म्यं ग्रन्थकोटिभिः । वर्णितं तच्च सक्षिप्तं भद्रबाहुगुरूत्तमैः ॥१०॥ तञ्च वर्षिणा भव्योपकाराय लघूकृतम् । ततः श्रीपादलिप्तेन सूरिणापि हितेच्छुना ॥११॥ ततो धनेश्वरसूरीश्वरः सक्षिप्तवास्तदा । ततोऽन्येऽपि गुरूत्तंसाः सञ्चिक्षिपुश्च तत्पुनः ॥१२॥ ततस्तपोगणाधीशो धर्मघोषगुरूत्तमः । श्रीशत्रुञ्जयकल्प तु चकाराम तमोऽपहम् ॥ १३ ॥ तपोगच्छाम्बरादित्याः, श्रीमद्देवेन्द्रसूरयः आसँस्तेषांविनेयास्तु, श्री विद्यानन्दसूरयः ॥१४॥ -- (तयोर्जाते मृतेऽकस्मात्त्रयोदशदिनान्तरे । धर्मकीर्तिरुपाध्यायोऽजनि तस्मिन् गणे तदा ॥१४॥) क्रमात्तस्य पदे सूरेोते सति शुभोदये । धर्मघोषगुरुरिति नामाऽजनि जनेऽभितः ॥१५॥ तेनैव धर्मघोषण मूरिणा विदधेतराम् । श्रीशत्रञ्जयकल्पोऽयं भव्याऽङ्गियोधहेतवे ॥१६॥
IS2525252525252ST52SSTIS
॥
२
॥
For Private and Personal Use Only