________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१६॥
2TS2252525252TS255SEI
पित्रा बहूदितः पुत्रो घटीचतुष्टयान्तिके । द्वारमुद्घाटयामास गेहस्य स्वार्थहेतवे ॥१२॥ पिता प्राह कथं सूनो ! त्वया नोद्घाटितं गृहम् । पुत्रो जगौ मया तात ! भवदीयं वचः कृतम् ॥१३॥ पिताऽवग् मद्वचश्चक्रे कथं ? ततोऽङ्गजो जगौ । तात! त्वयोदितं पुत्र ! देयः प्रत्युत्तरो न च ॥१४॥ वृद्धस्य दीयते तस्मा-न्नादां प्रत्युतरं तव । यतः पितुर्वचः पाल्य मुत्तमैः सुखमिच्छुभिः ॥१५॥ पिताऽऽचष्टेदृशे कार्ये देयः प्रत्युत्तरः सुत ! । ततः पुत्रो ददौ मिथ्या-दुष्कृतं पितरि ध्रुवम् ॥ १६ ॥ आराध्य जनकं भूरि कालं सद्विनयाद् दृढम् । प्रव्रज्यां श्रीगुरूपान्ते ललौ मण्डननन्दनः ॥७॥ पालयित्वा चिरं दीक्षां प्राप्य ज्ञानं चतुर्थकम् । शत्रुञ्जये ययौ भूरि-मुमुक्षुसुरसंश्रितः ॥ १८ ॥ बाह्याभ्यन्तरभेदेन तपो द्वादशधा सदा । कुर्वाणः मदनः साधुः पञ्चमं ज्ञानमाप्तवान् ॥१९॥ ततोऽनेकजनान् जैन-धर्मे प्रबोध्य मण्डनः । पुण्डरीकाचले मुक्ति-नगरी समुपेयिवान् ॥ २०॥ इत्यादि भूरिशो धर्म-कथां नमिजिनेश्वरः । कथयित्वा जनांस्तत्र ग्राहयामास संयमम् ॥ २१ ॥ नमितीर्थपतेधर्मों-पदेशाद् बहवो जनाः । प्राप्य ज्ञानं ययुर्मुक्ति केचिच्च त्रिदिवं ययुः ॥ २२ ॥ इत्यादि भूरिशो भव्यान् बोधयित्वा नमीश्वरः । विजहाराऽवनीपीठे जनान् बोधयितुं बहून् ॥ २३ ॥
- - - - - - - ------ - - -
15255255252525252S2S25TSE
ILL१६०॥
For Private and Personal Use Only