________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१५२॥
ESPEITTIESTETSHOSES
माया पिईया भाया वच्छल्लं तारिसं करेऊणे । अवराहविरहिआए कमहुञ्जपणासियं सब्बं ॥ २३ ॥ ध्यात्वेत्याभरणादीनि बद्ध्वा पोट्टलके स्ववम् । वेताम्बरधरा स्वौकः समागान्मदनप्रिया ।। २४ ।। पपात पादयोः श्वश्रवाः स्नुषा यावत्सुभक्तितः । तावत् श्वश्रूर्जगौ किन्तु मूनोर्मङ्गलमस्ति मे ॥२५ ।।। स्नुषाऽवक् कुशली पुत्र-स्तव मां पदबन्धकम् । मत्वा मुक्त्वा रहोऽचालीत् दूरदेशं प्रति ध्रुवम् ॥२६॥ सदस्खाभरणा गेहे यदि पत्या विना कृता । स्थास्याम्यहं तदा मे न सन्मार्गे तिष्ठते मनः ॥ २७ ॥ एवं ध्यात्वा मयोत्तार्य भूषणादि शरीरतः । एवंविधा समायाता भवत्या श्वश्रसन्निधौ ॥ २८ ॥ सबलाहारताम्बूला-दिकं रागविधायकम् । शीलरक्षाकृते प्रीति-मती समत्यजत् तदा ॥ २९ ।। पत्यौ समागते प्रीति-मती सद्वसनादिभृत् । पत्युर्यथोचितं चक्रे विनयं जल्पनादिभिः ॥ ३०॥ मातापित्रोगिरा पत्नी-विहितं सत्यु(म् )चितं च तत् । मत्वा सन्मानयामास प्रियां भूषणदानतः ॥३१॥ पितरने बहलक्ष्मी ढौकयित्वा नतिं व्यधात् । ततो मातुः पदौ भक्त्या ननाम मदनः सुतः ॥ ३२ ॥ क्रमाद् गुर्वन्तिके श्रुत्वा चारित्रस्य फलं शिवम् । सप्रियो मदनो दीक्षा जग्राह निर्वृतिप्रदाम् ॥ ३३ ॥ शुद्धं चारित्रमाराध्य मदनः संयुतः क्रमात् । शत्रुञ्जये तपस्तप्त्वा श्रेयःपुर्या समीयिवान् ॥ ३४ ॥ प्रीतिमत्यपि चारित्रमाराध्य शुद्धमादरात् । प्रथमे ताविषे जातोऽमरो भासुरविग्रहः ॥ ३५ ॥
3.SUSSTSESTSESSISSES
%pm
For Private and Personal Use Only