________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ १५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मदनो जनकं पृष्ट्वा सार्थवाहाभिधानभृत् । भूरिक्रयाणकैः पृष्ठ-वाहानभृत भूरिशः ॥ १० ॥ सुदिने मदनो लक्ष्मी-कृतेऽन्यविषयं प्रति । यियासुः भामिनीं प्राह त्वमत्रास्थाः सुखं प्रिये ! ॥ ११ ॥ पत्न्यवग् न विनाsत्र त्वां क्षणं स्थातुं प्रभुः प्रभो ! । मदनः प्राह न स्थातुं त्वां विनेह प्रियोत्तमे ! ॥१२॥ साम्प्रतं दुष्करं दूर-गमनं विद्यते प्रिये ! । तेन त्वमत्र तिष्टाद्य रमाहेतो व्रजाम्यहम् ॥ १३ ॥ स्थापितापि बलात्पत्या पत्न्यचालीत् समं तदा । मदनो नगराद् बाह्योद्याने वासमुपागमत् ॥ १४ ॥ तत्र तुङ्गपटीं कृत्वा मदनो गेहिनीसखः । तस्थौ रात्रौ तदाऽभाणी देवं सहचरीं प्रति ॥ १५ ॥ यदि पत्या समं पत्नी विदेशं व्रजति स्वयम् । प्रतिबन्धात् तदा पत्न्याः पतिः स्याद् दुःशको दृढम् ॥ १६॥ अतिष्ठन्तीं प्रियां सुप्तां मुक्त्वा तत्र तथास्थिताम् | अचलन्मदनश्छन्नं जजागार प्रिया प्रगे ॥ १७ ॥ चलितं रमणं मुक्त्वा तं ज्ञात्वा प्रिया तदा । रोदं रोदं भृशं स्थित्वा तत्र दध्याविदं हृदि ॥ १८ ॥ अहं मुधा समं पत्या चलन्त्यस्मि जडाशया । सद्वस्त्राभरणा नारी विना कान्तं न शोभते ॥ १९ ॥ यतः भत्तारविरहिणं होइ पिया आलओ महिलीआणं । अह पुण पुष्णेहिं विणा सो पुण वइरी समो जाओ ॥२०॥ तावच्चि हिresडा माऊणं पिऊण बंधवाणं च । जाव न धाडे पई महिलं नीत्राओ गेहाओ ॥ २१ ॥ ara सिरी सोहग्गा ताव य गुरुआउ होंति महिलाओ । जाव य पई महग्धं सिणेहपक्खं समुह ॥ २२ ॥
For Private and Personal Use Only
1225252552525525
. १५१ ॥