________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१५॥
2525252525252525252SSES
एवं धर्मोपदेशेन प्रबोध्य भक्निो बहून् । कुल तीर्थक्करोऽन्यत्र व्यहार्षीत् सिद्धपर्वतात् ॥ ३५ ॥
- -* - --- -*
॥श्री अरजिनस्थ शत्रुञ्जयागमनसम्बन्धः॥ हस्तिनागपुरे वर्षे सुदर्शनमहीपतिः । पपाल पृथिवीं सुष्टु न्यायमार्गेण सन्ततम् ॥१॥ तस्य देव्यभिधा भार्या गजादिस्वप्नसूचितम् । असूत तनयं चञ्च-ल्लक्षलक्षणलक्षितम् ॥२॥ वासवेन कृते जन्मो-त्सवे जन्मोत्सवं पिता । कृत्वा सूनोररेत्याह्वा-मदात् सञ्जनसाक्षिकम् ॥ ३॥ साधयित्वा क्रमात् पृथ्वीं षट्खण्डां चक्रिराइवरः । पपाल पृथिवीं न्याय-मार्गेण सन्ततं ध्रुवम् ॥४॥ त्यक्त्वा राज्यं व्रतं लात्वा तप्त्वा तीनं तपः पुनः । अवाप केवलज्ञान-मरतीर्थकरः क्रमात् ॥५॥ अरस्तीर्थेश्वरः क्षोणी पावयन् पदरेणुभिः । अनेकसाधुसंशोभी सिद्धाद्रौ समवासरत् ॥६॥ तत्रेति भव्यजीवानां पुरतो धर्मदेशनाम् । चकारारजिनाधीशो वाण्या मधुरया तदा ॥७॥ महीशानपुरे श्रीदः श्रेष्ठी श्रीदोपमः श्रिया । पुत्रोऽभून्मदनस्तस्य पत्नी प्रीतिमतिः सती ॥८॥ कामाभिलाषकोऽत्यन्तं मदनो गेहिनीयुतः । क्षणमेकं विना पत्न्या स्थातुं शक्नोति साऽपि न ॥९॥
wwwmummmmm
TISZTSPSSSTSESTSESTSESEN
॥१५०॥
For Private and Personal Use Only