________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ० ॥ १४८ ॥
1255252522525252525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अक्षणरोऽयमायाति याति शेते प्रजल्पति । अस्यन्निति जनो नाम तस्य कुम्भकुतो ददौ ॥ ९ ॥ लोकानां जल्पनादीनि कृत्यानि वीक्ष्य कुम्भकृत । अनीशः सहितुं वास- मरण्ये विजने व्यधात् ॥ १० ॥ तृणात्मके कुटीरे तु तिष्ठन् नित्यं स कुम्भकृत् । अश्वापहृतभूपेन तत्राssयातेन वीक्षितः ॥ ११ ॥ बुभुक्षितो नृपः स्वान्न - पानदानेन तत्क्षणम् । भक्त्या कुम्भकता स्वस्थी चक्रे च मुमुदे यथा ॥ १२ ॥ पुरीमध्ये तमानीय वितीर्य सदनं नृपः । भूरिद्रव्यप्रदानेन कुम्भकारममोदयत् ।। १३ ।।
इतोऽरण्ये बदरिका - फलानि तैलिकाङ्गजाम् । चुटन्तीममरीतुल्यां वीक्ष्य रागी नृपोऽजनि ॥ १४ ॥ तामुद्वाह्य लसद्वखाभरणां स्फारसद्मनि । स्थापयामास भूपालः पौलोमी निर्जरेशवत् ॥ १५ ॥ लसत् सुखासनासीनां वर्यवेषधरां स ताम् । मोटयन्तीं मुखं राज-मार्गे यान्तीं सखीयुताम् ॥ १६॥ प्रजल्पन्तीं निजोत्कर्ष राज्ञीं तैलपनन्दिनीम् । निरीक्ष्येर्ष्या वितन्वानः (नो) प्राहेत्यणक्षरस्तदा ॥ १७ ॥ "कल्ले बोरज वीणती अञ्जन जागर खंख (तैल) । पुणरवि अडविं करसि वर न सहू एह अणक्ख ||१८|| ततश्च कुम्भकुद् गत्वा पुराद्वहिर्निकेतनम् । कृत्वा तस्थौ वितन्वान ईर्ष्या सर्वजनेष्वपि ॥ १९ ॥ इतस्तत्र समायाता धर्म्मसुन्दरसूरयः । अणक्षरस्य पुरतो जगदुर्धर्मदेशनाम् ॥ २० ॥
यतः - " कोहो पीई पणासेइ माणो विणयनासणो । माया मित्ताणि नासेइ लोभो सच्चविणासणो ॥ २१ ॥
For Private and Personal Use Only
32529252525 25 25255252525
॥ १४८ ॥