________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तत्र वर्षाचतुर्मासं स्थितः षोडश तीर्थकृत् । बोधयामास भूयिष्ठ-भव्यान् जिनमते क्रमात् ॥ २० ॥ एवं विहारमातन्वन् शान्तिनाथोऽवनीतले । शत्रुञ्जये समायातो बहून् वारान् सुसाधुयुग ॥२१ ।।
mmmmmmmmmma
m mmmmmmmmmmmm
शत्रुञ्जय कल्पवृ०
॥१४७॥
2PSZS29212S
॥ श्री कुन्थुतीर्थङ्करस्य शत्रुञ्जयागमन-समवस्मृतिस्वरूपम् ॥ हस्तिनागपुरे सूर-भूपस्य श्रीरभूत् प्रिया । वैशाखासितभूतेष्टा-तिथौ सूतेस्म सा सुतम् ॥१॥ वासवेन कृते जन्मो-त्सवे जनुर्महः पिता । कृत्वा सूनोर्ददी नाम कुन्थुः सज्जनसाक्षिकम् ॥२॥ साधयित्वाऽथ षट्खण्डां भुवं त्यक्त्वा च रेणुवत् । जग्राह संयमं दत्त्वा दानं हायनमात्रतः ॥३॥ क्षिप्त्वा कर्म क्रमात् प्राप्य ज्ञानं श्रीकुंथुतीर्थकृत् । बोधयन् भविनः शत्र-जये तीर्थे समीयिवान् ॥४॥ तत्र द्वादश पर्षत्सू-पविष्टासु जिनेश्वरः । दातुं धर्मोपदेशं तु प्रववर्ते शिवप्रदम् ॥ ५॥ अत्र कथा-सिद्धाह्वनगरे सिद्ध-सेनस्य मेदिनीपतेः । प्रजाः पालयतः सर्वाः सुखवन्त्योऽभवन् क्रमात् ॥६॥ तत्र भीमाभिधः कुम्भ-कारोऽतीव विचक्षणः । परजल्पनभूत्यादौ कुरुतेऽणक्षरं सदा ॥७॥ परेषां गमने वस्त्र-भूपादिपरिधापने । जल्पनं वीक्ष्य कुरुतेऽणक्षरं कुम्भकृत् सदा ॥ ८ ॥
5259LEISSZSZS52SSPS
॥१४७॥
।
For Private and Personal Use Only