________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ० ॥१४३॥
STSESEZPISSE SPSESSESE
* शुद्ध क्रियाकलापं ये कुर्वते गुरुजल्पितम् । ते लभन्ते जनाः स्वर्गा-पवर्गादिसुखश्रियम् ॥५॥॥ * धर्मादधिगते इवयों धर्ममेव निहन्ति यः । कथं शुभगतिर्भावी स स्वामिद्रोहपातकी ॥६॥ * अङ्कस्थाने भवेद्धर्मः शून्यस्थाने ततः परम् । अङ्कस्थाने पुनर्भग्ने सर्वशून्यं दरिद्रता ॥ ७॥ ॥ अत्र कथा-कुण्डाह्वनगरे सोम-वीर-धीरा-मराह्वयाः । चत्वारः सुहृदः प्रीति-भाजो मिथोऽभवंस्तदा ॥ ८ ॥ धनार्जनकृतेऽन्येयुश्चलिताः सुहृदः समे । मङ्गशैले वरं सिद्ध-पुरुषं भेजुरादरात् ॥९॥ षण्मासान्ते नृणां तेषां कुर्वतां तस्य सेवनम् । पुमान् सिद्धो जगौ यूयं वरं मार्गयताऽधुना ॥१०॥ ते नरा जगदुर्देहि धनं दारि-यभेदकम् । सिद्धो जगौ च तुम्ब्या हि फलानि लात पूर्वकम् ॥११॥ योगे पुष्यार्कयोर्मध्यं-दिने वारान् शतं महीम् । खेटयित्वा प्ररोप्यन्ते तुम्बीबीजानि भावतः ॥१२॥ मण्डपः क्रियते तस्यो-परि छायाकृते वरः । औं ही मिति जल्पेत लक्षमेकं रहःस्थितैः ॥ १३ ॥ इत्यादिविधिनोप्तानि तुम्बीबीजानि सादरम् । तासां बीजानि गृह्यन्ते पुनर्वपनहेतवे ॥१४॥ चूर्णीकृत्य च पत्राणि स्थाप्यन्ते निजसन्निधौ । पुकर्षकषष्टयन्तश्चर्ण बालमित क्षिपेत् ॥१५॥ क्षिप्त्वाऽमत्रे च तद्वह्नौ धम्यते प्रहराष्टकम् । सर्व भविष्यति स्वर्ण जात्यं दारि-यभेदकम् ॥१६॥ | एवं चेद्यदि युष्माभि-मदुक्तं क्रियतेऽधुना । तदा गच्छति दारि-यं भवतो मन्दिरान्ननु ॥१७॥
TESZISTESTSISESTSESEST
॥१४३1
For Private and Personal Use Only