________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रेष्ठिजीवसुरः सोऽपि च्युत्वा स्पतितोऽन्यदा । प्रजापतेरभूत् सूनु-रमराहो वराकृतिः ॥३२॥ चत्वारोऽपि मिथः प्रीति-भाजः सहोदराः क्रमात् । धर्मघोषगुरूपान्ते जैन धर्म प्रेपेदिरे ॥३३॥ प्रपाल्य धर्ममनिशं चत्वारोऽप्यच्युतं ययुः । ततश्च्युताः कलापुर्या जाताः श्रीदसुताः पुनः ॥ ३४॥ अत्र शत्रञ्जये यात्रा-कृते समागताच ते । लात्वा दीक्षां तपस्तीत्रं चक्रिरे शिवसातदम् ॥ ३५॥ क्रमात् कर्मक्षयाज्ज्ञान-मासाद्यानुत्तरं खलु । कल्याणनगरी जग्मु-श्चत्वारोऽपि सहोदराः ॥ ३६॥ इत्याद्यनन्तनाथस्य वाणी योजनगामिनीम् । आकर्ण्य भविनोऽनेके महोदयपुरीं ययुः ॥३७॥
शत्रुजय कल्पवृ०
॥१४२॥
2SSZESEASOSESS2135
BL2RSG252SPSSELDSTES
॥ श्री धर्मजिनस्य शत्रुञ्जयागमनस्वरूपम् । पुरे रत्नपुरे भानु-भूपस्य सुव्रता प्रिया । माघशुक्लतृतीयस्यां सुषुवे नन्दनं वरम् ॥१॥ शक्रेण विहिते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा धर्मेति नामाऽदात् सुनोः सञ्जनसाक्षिकम् ॥२॥ राज्यं प्राप्य पितुः पाश्र्वात् पालयित्वा प्रजाश्चिरम् । लात्वा दीक्षां क्रमात् प्राप केवलज्ञानमञ्जसा ॥३॥ धर्मोजिनोऽन्यदा शत्रु-जये तीर्थे समागतः । ददौ धर्मोपदेशं तु भव्याङ्गिभ्यः शिवप्रदम् ॥ ४॥
१४२॥
For Private and Personal Use Only