________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१३४॥
12SSESTSE25252525252525252
* अङ्गुष्ठमात्रमपि यः प्रारोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् । ॐ
स्वर्गप्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरगति लभते स धीरः ॥८॥ अर्हत्प्रासादबिम्बानि कारयन्ति मनाश्च ये । तेषां स्वर्गादिशर्म स्या-द्धीरभूपकलत्रवत् ॥९॥ आसंश्चन्द्रपुरे धीर-भूपस्याष्टौ प्रियाः प्रियाः । आसीत्तासु वरा पट्ट-राज्ञी वीरमतिः क्रमात् ॥ १० ॥ जैनधर्म वितन्वानो-पदेशं ददतीतराम् । पट्टराझ्यन्यराज्ञीभ्य-स्तासां तत्राभवद् गुरुः ॥११॥ आदौ जिनालयं वयं कारयित्वा धनव्ययात् । पट्टराज्ञी ददौ तासा-मुपदेशं शिवप्रदम् ॥१२॥ * आरोग्यभाग्याभ्युदयप्रभुत्वं, सत्त्वं शरीरे स्वजने महत्त्वम् । 5
तत्त्वं च चित्ते सदने च सम्पत् , सम्पद्यते पुण्यवशेन पुंसाम् ॥ १३ ।। पट्टराज्ञीजिनावासा-दन्या भूपप्रियाः प्रियाः । अधिकान् स्वान् जिनागारा-नचीकरन् मनोहरान् ॥१४॥ तासां जिनालयान् प्रौढान् वीक्ष्य दध्यौ च सा हृदि । मया मोघाद् ददे धर्मों जैन आसां पुरोऽधुना ॥ १५ ॥ आभिर्ये कारिताः सर्वा( सार्वा ) लया उच्चतरा वराः । ते पतिष्यन्ति चेच्छीघ्रं जायते मे तदा वरम् ॥१६॥ प्रायो विभूतिमन्येषा मालोक्य मानवाः सदा । ईयां वितन्वते शश्वत् कत्तुं तानि सदादरात् ॥१७॥ एवं दुर्ध्यानतो जात-शूला भूपप्रियाऽऽदिमा । मृता तत्र शुनी जाता वैचित्र्यं कर्मणामहो? ॥१८॥
252525252TSSZISZSE
॥१३४॥
For Private and Personal Use Only