________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कमलः स्वं तनूजातं स्वपट्टे न्यस्य सूत्सवम् । लात्वा दीक्षां ययौ मुक्ति प्राप्य ज्ञानमनुत्तरम् ॥३४॥ एवं प्रभोगिरं श्रुत्वा भूयांसो भव्यदेहिनः । छित्वा निःशेषकर्माणि जग्मुः शत्रञ्जये शिवम् ॥३५॥
SE252
शत्रुञ्जय कल्पवृ.
52525255
॥ श्री वासुपूज्यजिनस्य श्रीशत्रुञ्जयतीर्थे समागमनस्वरूपम् ॥ चम्पायां वसुपूज्यस्य भूपस्याऽभूज्जया प्रिया । चतुर्दशमहास्वप्न-सूचितं गर्भमादधौ ॥१॥ फाल्गुनासितमार्तण्ड-तिथावुच्चग्रहेष्वथ । जयाऽसूत सुतं वय-लक्षणलक्षितं शुभैः ॥२॥ शक्रेण विहिते जन्मो-त्सवे जन्मोत्सवं पिता । कृत्वाऽदात् वासुपूज्येति नाम सूनोः सदुत्सवम् ॥३॥
अत्र ज्ञानप्राप्तिं यावच्चरित्राद् ज्ञेयं त्व(स्व)यम्विहरन्नन्यदा वासु-पूज्यस्तीर्थकरो भुवि । सिद्धभूमीधरस्योर्ध्व-धरणौ समवासरत् ॥ ४ ॥
तत्रानेके जना स्वामि-वाणी योजनगामिनीम् । सर्वपापछिदां श्रोतुं समीयुर्दूरदेशतः ॥५॥ H * तथाहि-प्रासादप्रतिमाधर्म-शालादिपुण्यतः किल । लभन्ते मनुजाः स्वर्गा-पवर्गादिरमा रयात् ॥६॥॥ H* यतः-अङ्गुष्ठमात्रमपि यो विम्बं कारयति वरम् । वृषभादिमवीरान्त-जिनानां स शिवं श्रयेत् ॥ ७॥
SASSZOLG2SS2552525SAS
॥१३३।।
For Private and Personal Use Only