________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥१३५॥
SSESSESSE 525252SSISTE
प्रविशन्ती शुनी तत्र देवमन्दिरमध्यतः । कुट्टयित्वा बहिनिष्का-शयन्ति मनुजाः सदा ॥१९॥ अकस्मादेकदा बिम्बं प्रभोर्वीक्ष्य प्रगे शुनी । प्राप्य जातिस्मृतिं दृष्ट्वा प्राम्भवं रोदिति ध्रुवम् ॥२०॥ कुट्टितापि जनैरश्र-प्रवाहोन्मोचका सदा । प्रभूवोकोद्वारतोऽन्यत्र न याति कुत्रचित् शुनी ॥ २१ ॥ पुननिजं कृतं कर्म परेया विहितं शुनी । निन्दन्ती पशुभावत्वात् शक्नोति जल्पितुं नहि ॥ २२ ॥ लोका दध्युः कुतो हेतोः शुनीयं याति न क्वचित् । विना केवलिनं तच्चा-ज्ञानिभिर्ज्ञायते नहि ॥ २३ ॥ इतस्तत्राऽऽगतो ज्ञानी सर्वराज्ञीभिरादरात् । वन्दितः शुश्रुवे धर्मों-पदेशः शिवशर्मदः ॥ २४ ॥ उपदेशोऽत्र । देशनान्ते महीपाल-पत्न्यः पप्रच्छुरादरात् । अस्माक गुरुणीवीर-मत्युत्पन्नाऽस्ति कुत्र नु ॥ २५ ॥ केवल्यवग् जिनागार-द्वारे तिष्ठति या शुनी । सैव वीरमती मृत्वा जाताऽस्तीा विधानतः ॥ २६ ॥ ताभिः प्रोक्तं कथं पुण्य-वती वीरमती शुनी । ज्ञान्यवक् प्राप्यते तिर्यग्भव आतिविचिन्तनात् ॥२७॥ * यतः-आते तिर्यग्गतिस्तथा गतिरधो ध्याने च रौद्रे सदा, धर्मे देवगतिस्तथा भवति हि शुक्ले च जन्मक्षयः ॥ केवली प्राह यद्यत्रा-गता मामनमत् स्फुटम् । आदिनाथार्चकप्रोक्ता शुनी चेद् वीक्ष्यते त्वथः ॥ २९ ॥ तदा ज्ञेया भवन्तीभिः स्वकीया गुरुणी शुनी । कर्मयोगादियं भाग्य-वती मुक्तिं गमिष्यति ॥३०॥ तत्राऽऽनीता शुनी ताभि-गुरूक्तं विदधेऽखिलम् । गुरुः प्राहाऽधुना पुण्यं कुरु तस्माच्छिवं भवेत् ॥३१॥
SI525ST52292SCSESSES
For Private and Personal Use Only