________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
PSESS
शत्रुञ्जय कल्पवृ० ॥१३१॥
अन्यदा नृपतिर्यावत् सभायां समुपाविशत् । तावच्छुक शुकीयुग्मं कुर्वत् कलिं समागमत् ॥९॥ किमर्थ क्रियतेऽत्यन्तं, युवाभ्यां कलहोऽधुना । इत्युक्ते भूभुजा शुक्या, प्रोक्तमेष सुतो मम ॥१०॥ शुकोऽवग् मम पुत्रोऽय-मेष एव नरेश्वर ! । भूपोऽवग् क्रियते नैव विवादो हितमिच्छता ॥११॥ * यतः-" विवादं कुर्वतां पुंसां, पशुनामिव जायते । दुःखं परत्र पातः स्यात् श्वभ्रे शङ्का (सया) सुखे पुनः ।१२॥ सुतोऽयं युवयोरेष, युवाभ्यां जनितो यतः । स्वकुले कलहो दुःख-दायी स्यादुभयोरपि ।। १३ ।। ततो मुक्तविवादः सन् , शुकः पत्नीसुतान्वितः । ययौ युगादिदेवस्य, गृहे तस्थौ समाहितः ॥१४॥ तत्रासनप्रदेशे तु, ज्ञानतुङ्गगुरूत्तमान् । नत्वा शृण्वत्सु भव्येषु, धर्म कीरः समागमत् ॥१५॥ * श्रीमज्जिनेशनमनं तिलकत्यलीके, वक्षःस्थले विमलमालति सद्विवेकः ।
ताडकति श्रवणयोः सुगुरूपदेश-स्त्यागस्तु कङ्कणति पाणितले सतां हि ॥१६॥॥ * पूआ पच्चक्खाणं पडिकमणं पोसह-परोवयारो य । पंच पयारा जस्स य न पयारो तस्स संसारे ॥१७॥ अर्हत्पूजाफलं ज्ञात्वा, प्रत्यहं बहवो जनाः । समेत्य सदने भावात् , कुर्वते जिनपूजनम् ॥१८॥ तदा शुकोऽपि पत्र्यंङ्गभूशाली दिवसोदये । ढौकयित्वा प्रभोरग्रे, शस्यशीर्षाणि गच्छति ॥१९॥ अर्हत्पूजाप्रभावेण, मृत्वा कीरः समाधिना । चन्द्रवीरस्य पुत्रोऽभूत , चन्द्रदेवाभिधानतः ॥२०॥
TISISSESZSESESZSESTSPSC
SESSESE
For Private and Personal Use Only