________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
हस्तिमन्त्री त्रिसन्ध्यां तु कुर्वन् पूजां जिनेशितुः । प्रतिक्रान्ति करोति स्मो-भयकालं निरन्तरम् ॥३६॥ सिद्धाचलादितीर्थेषु प्राप्य सङ्घपतेः पदम् । चकार हस्तिमन्त्रीशो यात्रां भूरिधनव्ययात् ॥ ३७॥ अस्मिन्नेव गिरौ सिद्ध-ध्यानं कुर्वन् स मन्त्रिराट् । सम्प्राप्य केवलज्ञानं ययौ मुक्तिपुरी क्रमात् ॥ ३८ ॥ धर्मोपदेशमित्यादि दत्त्वा तत्र महीधरे । सुमतिस्तीर्थकृच्चक्रे विहारमन्यनीवृति ॥ ३९ ॥ एवं सुमतितीर्थेशो वारान् सहस्रशः क्रमात् । सिद्धाद्रौ समवासार्कीद् भव्याङ्गिबोधहेतवे ॥४०॥
शत्रुञ्जय कल्पवृ०
॥११६॥
ISESESTSETSESESTZ22SSE
॥ श्री पद्मप्रभस्य शत्रुञ्जयसमवमृतिस्वरूपम् ॥ कौशाम्ब्यां पुरि भूपस्य धरस्य शासतो महीम् । सुसीमा गेहिनी शुद्ध-शीलमाणिक्यशालिनी ॥१॥ इतो अवेयकाद् देव-इच्युत्वा धरमहीपतेः । सहचर्याः सुसीमाया उदरेऽवातरन्निशि ॥२॥ तदा राजी महास्वप्नान् चतुर्दशमितान् वरान् । मुखे प्रविशतोऽपश्यन् निशीथसमये मुदा ॥३॥ यतः-"गयवसह-सीह-अभिसेय-दामससिदिणयरं झयं कुंभ । पउमसरसागरविमाण-भवणरयणुच्चयसिहि च"॥ जन्म जन्मोत्सवं राज्य-प्राप्तिदीक्षाग्रही पुनः । ज्ञानप्राप्तिस्वरूपं च प्रोन्यान्येतानि कोविदैः ॥५॥
PIESPITZSIESESGPS
For Private and Personal Use Only