________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय कल्पवृ० ॥ ११५ ॥
12525525225525252752525257
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुष्टो मे गोमुखो यक्षः किं याचेऽहं प्रिये ! वद ? | प्राणप्रियाऽऽह याचस्व सद्बुद्धि यक्षसन्निधौ ||२३|| याचित्वा सुमतिं यक्षात् श्रेष्ठयैत्य सदने जगौ । आनयाम्भः शयं प्रक्षा - लयिष्यामि प्रियोत्तमे ! ॥ २४ ॥ प्रिया भाणीद् घृतं हस्त- लग्नं तव गमिष्यति । हस्यत्यवग् न शयास्यां ह्रीन् ( न ) प्रक्षाल्याद्यहं ननु ||२५|| पत्नी दध्यावयं कान्तो जातोऽस्ति मतिमागू मम । प्रतिक्षाल्य ततो हस्तं हस्तिः प्रास्फेटयद् घृतम् ||२६|| इतस्तत्र पुरे राजा स्वका रितसरोवरे । संस्थाप्य स्तम्भमाहेति पौराणां पुरतस्तदा ॥ २७ ॥ यो ना पालिस्थितः स्तम्भं गुणेन वेष्टयिष्यति । तोलयिष्यति पट्टेभं निजबुद्धिप्रपञ्श्चतः ॥ २८ ॥ मन्त्रिमुख्यपदं तस्मै दास्येऽहं मानदानतः । हस्तिः श्रुत्वेति भूपेन समं सरोवरे ययौ ॥ २९ ॥ लम्बां रज्जुं सरःपालौ मुक्त्वाssदौ परितस्तदा । शये लात्वैकरज्जुं तं द्वितीयं कर्षयन् पुनः ॥ ३० ॥ सरःकण्ठस्थितो हस्तिः स्तम्भं बबन्ध रज्जुना । तदा सन्मानयामास राजा तं हस्तिनैगमम् ॥ ३१ ॥ यानमध्यस्थिते पट्ट-गजे तेन कृते तदा । यावन्मात्रं जले मग्नं यानं रेखा कृता तदा ॥ ३२ ॥
उत्तीर्य कुञ्जरं यानं भृत्वाऽश्मभिश्च तान् पुनः । तोलयित्वा च जज्ञौ स कुम्भिभारं प्रमाणतः ॥ ३३ ॥ युग्मम् ॥ ततो ग्रामशतं तस्मै दत्त्वा मन्त्रिपदं पुनः । भूभुजा सत्कृतः सर्व- मन्त्रिमुख्यः सदुत्सवम् ॥ ३४ ॥ राजकार्य प्रजाकार्य कुर्वन् हस्तिः सः मन्त्रिराट् । धर्मकृत्यानि सर्वाणि चकार मुक्तिहेतवे ।। ३५ ।।
For Private and Personal Use Only
5225252525252525
॥ ११५ ॥