________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पव०
॥११४॥
22SSISTSESESESESZSESTSE
तस्याऽजनि प्रिया गङ्गा-देवी गङ्गव निर्मला । गङ्गा वक्ति प्रियेदानीं धर्मे व्यय धनं सदा ॥१०॥ * धर्मकृत्येषु या लक्ष्मी स्थाप्यते साऽतिसुन्दरा | अन्याऽवकेशभूमीव लक्ष्मीवान्नैव शस्यते ॥११॥ * यतः-' अधः क्षिपन्ति कृपणा वित्तं तत्र पियासवः । सन्तस्तु गुरुचैत्यादौ तदुच्चैः फलकाविणः ॥१२॥॥ एकदा श्रीगुरूपान्ते हस्ति नत्वा गुरुक्रमौ । धर्म श्रोतुमुपाविष्टो यावत्तावद् गुरुजगौ ॥१३॥ * अभयं सुपत्तदाणं अणुकंपा-उचिअ-कित्तिदाणं च । दोहिवि मुक्खो भणिओ तिन्निवि भोगाइ दिति ॥१४॥ * न कयं दीणुद्धरणं न कयं साहम्मिआण वच्छल्लं । हिअयम्मि वीयराओ न धारिओ हारिओ जम्मो ॥१५॥ *व्याजे स्याद् द्विगुणं वित्तं व्यवसाये चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तं पात्रेऽनन्तगुणं भवेत् ॥१६॥॥ श्रत्वा धर्म जगी हस्ति मया जिननति विना । नो भोक्तव्यं पयः पेयं शयितव्यं कदाचन ॥१७॥ सोऽप्रणम्यैकदा सावं भोक्तुं यावदुपाविशत् । तावत् पत्नी जगौ स्वामिन् ! न नतोऽद्य त्वया जिनः ॥१८॥ हस्तेऽथाभ्युच्छिते( ष्टे )पत्नी प्राह हस्तं पवित्रय । हस्यवग् धावने पाणे-घृतं याति च तस्थितम् ॥ १९ ॥ स्थगयित्वा शयं गत्वा जिनौकसि जिनं स च । नत्वा यावच्चचालाऽऽशु पश्चात्तावत् सुरो जगौ ॥ २०॥ यक्षोऽहं गोमुखस्तुष्ट-स्तुभ्यं जिनेन्द्रभक्तितः । वरं याचस्व चित्तेष्टं दास्येऽदस्तव साम्प्रतम् ॥ २१ ॥ श्रेष्ठयवग् गहिनी पृष्ट्वा मार्गयिष्यामि वाञ्छितम् । ततो हस्तिस्तथावस्थो गत्वा भार्यान्तिके जगौ ॥२२॥
PIES252ES52SSES
।
IL११४॥
For Private and Personal Use Only