________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥११७॥
TESESESESEERSISEASESSESEE
पद्मप्रभप्रभुः पृथ्वी क्रमाभ्यां पावयन् क्रमात् । भूरिसाधुयुतः शत्रु-जयेऽथ समवासरत् ॥ ६॥ तत्र द्वादश पर्षत्सू-पविष्टासु यथाक्रमम् । पद्मप्रभोऽतिदिशति देशनां भविनां पुरः ॥ ७॥ सुपात्रेभ्यो ददद्दानं भव्यजीवः सदादरात् । धर्म श्राद्ध इवाप्नोति कल्याणकमलां किल ॥८॥ तथाहि-अयोध्यायामभूद्धर्म-श्रेष्ठी पत्नी मनोरमा । पुत्रः पद्मरथो धर्म-कर्मककरणादरः ॥९॥ श्रेष्ठी प्रोवाच पुत्राग्रे श्रीरिक्तो भाति नो नरः । तेनान्यविषये गत्वाऽऽनेष्यामि विभवं बहुम् ॥१०॥ * यतः-“जाई रूवं विज्जा तिन्नि वि निवडंतु कंदरे विवरे । अत्थुच्चिय परिवडउ जेण गुणा पायडा हुँति ।। ११ ॥5 रूप्यकाञ्चनमञ्जिष्ठा-मुख्यभूरिक्रयाणकैः । भृत्वाऽनोऽति शुभे धर्मोऽचालीदन्यपुरं प्रति ॥१२॥ मार्गे गच्छन् कमाद्धर्म आयातांस्तस्करान् बहून् । निरीक्ष्य सम्मुखं गत्वा तेषां नतिं व्यधाद्धरि ॥१३॥ हसन्तस्तस्कराः प्रोचु-र्भो वणिग् ! मायिकोत्तम ! । यतः आदौ समेत्याऽस्मान्नमश्चक्रे मलिम्लुचान् ॥ १४ ॥ * यतः-"मायासीलह माणुसह किमु पतीजण जाई । नीलकंठ महुरं लवइ सविषभुयंगम खाइ" ॥१५॥
श्रेष्ठयाह यस्य यद्वस्तु ग्रहिष्यति बलादिह । स परत्र गतो लक्ष-कोटिगुणं च दास्यति ॥ १६ ॥ * यतः-वहमारणअभक्खाण-दाणपरधणविलोवणाईणं । सव्वजहन्नो उदओ दसगुणिओ इक्कसि कयाणं ॥ १७॥॥ * तिव्वयरे उ पओसे सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुञ्ज विवागो बहुतरो वा ॥१८॥
ESSESESEISESSESSESSIS
११७॥
For Private and Personal Use Only