________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
॥ ११२ ॥
552552s.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्षाणौ कलहं मन्त्रि-सेल्लहस्तसुतौ क्रमात् । गत्वा भूपान्तिके दोषं मिथो जजल्पतुस्तदा ॥ ३६ ॥ आकारितस्तदा साक्षी द्वाभ्यां श्रेष्ट्यङ्गजस्तदा । मन्त्रिसू नोव्यधात् पक्षं सेल्लहस्तोsरुपत्तदा ॥ ३७ ॥ सेल्लहस्तोऽथ भूपान्तान् छलेन चम्पकं क्रमात् । दण्डयामास भूयिष्ठ- पद्माया अपहारतः ।। ३८ । aat भूरिधनं दत्त्वा वीदाय चम्पको धियम् । लात्वा तस्यौ त्रिके मार्गे धीदप्रोक्ते प्रमोदतः || ३९॥ चम्पकनिकमार्गे तु तिष्ठन् पृच्छति मार्गगान् । भवद्भिर्वीक्षितं दृष्टं किं किं सम्प्रति जल्पताम् ॥ ४० ॥ एकः पान्थो जगौ लब्धो मयैकः प्रस्तरोऽधुना । रोचते यदि ते लाहि दत्त्वा द्रमाष्टकं मम ॥ ४१ ॥ पथिकाय मानष्टौ वितीर्य चम्पकस्तदा । ग्रहीत्वा प्रस्तरं तं च समाययौ स्वमन्दिरे ॥ ४२ ॥ तस्मात् प्रस्तरतः कोटि-द्रमानासाद्य विक्रयात् । महेभ्यो राजमान्योऽभूत् चम्पकश्रेष्ठिनन्दनः ॥ ४३ ॥ मृत्युं गतेऽथ जनके चम्पको गृहनायकः । अभिनन्दन सर्वज्ञ पार्श्वे जैनं वृषं ललौ ॥ ४४ ॥ क्रमात् स्वसूनवे गेह-भारं वितीर्य रङ्गतः | अभिनन्दनसावन्त संयमं प्राप्तवान् ध्रुवम् ॥ ४५ ॥ गुरूपान्ते वृपं श्रुत्वा मधुः श्रीजिनपूजनम् । कुर्वन्नुपार्जयामास पुण्यं मुक्तिगमोचितम् ॥ ४६ ॥ धर्मिणां धर्मधिषणां कर्मिणां कर्मशेमुषीम् ! मधुश्रेष्ठी ददन् नित्यं श्लाध्योऽजनि नृपादिषु ॥ ४७ ॥ क्रमान्मधुर्जिनोपान्ते लात्वा दीक्षां दद्गवः ( दराद्गतः ) । साधुना चन्दनेनाऽमा विहारं तनुते मुदा ॥ ४८ ॥
For Private and Personal Use Only
IS2557525252525252525
2525
॥ ११२ ॥