________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ.
PSPSSESESES25252SES
हरो व्ययन् सुखे दुःखे धर्मकृत्यं न मुश्चते । प्रत्याख्यानं यथाशक्ति तनुते गुरुसाक्षिकम् ॥२३॥ मस्तकेनार्जितां लक्ष्मी-धर्मकृत्ये व्ययन् हरः । अभिनन्दनसर्वज्ञं सेवते स्म सुभावतः ॥ २४ ॥ अभिनन्दनजिनस्यान्ते दीक्षा लात्वा क्रमात् हरः । सर्वकर्मक्षयान्मुक्तिं ययौ सिद्धमहीधरे ॥ २५ ॥ जम्बूपुरे मधुश्रेष्ठी विक्रीणन् सुमतीवराः । वर्यवेषधरोऽनये हट्टे तस्थौ निरन्तरम् ॥२६॥ एकदा तत्र वास्तव्य-चम्पकवेष्ठिनन्दनः । तत्रैत्याऽवग् तवाट्टेऽत्र क्रयाण किं न दृश्यते ? ॥२७॥ श्रेष्ट्यवग् धीः क्रयाण मे विद्यतेऽट्टे मनोहरम् । तद् यो गृह्णाति नित्यं स सुखवान् जायते खलु ॥२८॥ द्रमान् पश्चशतीं तस्मै स दत्त्वैकां धियं ललौ । न स्थेयं भवताऽऽस्थेयं द्वयोः कुर्वाणयोः कलिम् ॥२९॥ तदा कश्चिन्नरोऽभ्येत्य श्रेष्ठिनोऽग्रे जगाविति । भवत्पुत्रो ललौ वयं पण्यं लाभो भविष्यति ॥३०॥ ततः श्रेष्ठी मधूपान्ते गत्वाऽवक् त्वं वरोऽसि न । यतो धीदानतः पुत्रोऽदण्डयन्मम नन्दनम् ॥३१॥ श्रेष्ट्यवम् यदि ते नैव रोचते मे क्रयाणकम् । तदा पश्चाद् धियं देहि धनं त्वं स्वं गृहाण भो! ॥३२॥ अनेन श्रेष्ठिपुत्रेण द्वयोः कलिं वितन्वतोः । स्थेयं न चेद्यदा देयं मह्यं दशशतीं द्रमान् ॥३३॥ चम्पकः प्रतिपद्येति दवा पश्चाद् धियं च ताम् । लात्वा स्वं स्वं ययौ स्वीय-गृहे नन्दनसंयुतः ॥३४॥ मन्त्रिणः सेल्लहस्तस्य सुनोवितन्वतोः कलिम् । पार्चेऽस्थात् श्रेष्ठिसूर्याव-ताभ्यां साक्षीकृतः स च ॥३५॥
TIPSSTSESSSSSSSS
॥१
For Private and Personal Use Only