________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ISESESESES
शत्रुञ्जय
कल्पवृ०
॥१०८॥
SSC222SSEE
पश्चाह स्तोकैदिनैरेव भवन्त भवतोऽनुगान् । जित्वा पद्मसुताः स्वाज्ञा ग्राहयिष्यन्ति नृन् पुनः ॥२२॥ तेनाऽधुना विजेतुं ता भवतोऽवसरोऽस्ति हि । उद्गच्छन्नेव नो शत्रर्हतः सैव हनिष्यते ॥ २३ ॥ ता जेतुं मोहभूपेन वीटके स्वकरे कृते । प्रमीला-विकथे मोहं नत्वेति प्रोचतुस्तदा ॥ २४ ॥ आवयो/टकं देहि प्रसद्य मोहभूपते ! । तवाज्ञां ग्राहयिष्यावो गत्वा तास्तत्र शीघ्रतः ॥ २५॥ ता निद्रा-विकथे जेतुं चलन्त्यो स्वामिपार्वतः । पद्मनार्यन्तिके गत्वा प्रथम चेति जल्पतः ॥२६॥ वीरश्रेष्ठिप्रिया वय-रसवत्यादिदानतः । भोजयामास भूयिष्ठाः श्राद्धीः किमजमीस्त्वकम् ॥ २७॥ पद्माऽवक् चिन्तया कि मे तथा सम्पतिवार्तया । गुणवन्त्यश्च ताः श्राद्धयो भोजिता नागुणास्पदम् ॥२८॥ एवं निद्राविकथाभ्यां कुर्वतीभ्यां कथां पृथग् । विकथा कारिता पमा निद्रापि ग्राहिता पुनः ॥ २९ ॥ प्रमीला-विकथे एवं लक्ष्मीमपि क्रमात् तदा । ग्राहयामास तु स्वाज्ञां विकथादिविधानतः ॥३०॥ चन्द्रावती तु भक्तादि-कथाभिरिभिर्भृशम् । चालिता न मनाग् धर्मध्यानानिर्जरशैलवत् ॥ ३१ ॥ पद्मा-लक्ष्म्यौ तु भक्तादि-कथाकरणतत्परे । मृत्वा श्वभ्रे गते भूरि-दुःखभाजौ बभूवतुः ॥ ३२ ॥ चन्द्रावती वितन्वाना शुद्धं धर्म जिनोदितम् । अस्मिस्तीर्थे समायाता नन्तुं श्रीवृषभं जिनम् ॥ ३३ ॥ कुर्वाणा सततं ध्यानं तपश्च पुरतः प्रभोः । सम्प्राप्य केवलज्ञानं ययौ मुक्तिपुरी क्रमात् ॥ ३४ ॥
PASI252525252SSISESTZS
॥१०८॥
For Private and Personal Use Only