________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय कल्पवृ०
॥१०७॥
SISESTETISTKISELGE
एकमेव वरं तिस्रो भगिन्यः कोविदोत्तमम् । वाञ्छन्त्यो जनकस्याग्रे जगदुश्चित्तचिन्तितम् ॥९॥ ततः पिता धनश्रेष्ठि-नन्दनं श्रीदसज्ञितम् । विज्ञमाकर्ण्य शास्त्राणा-मर्थ पप्रच्छ सादरम् ॥१०॥ लक्षणालकृतिच्छन्दो-मुख्यशास्त्रार्थमद्भुतम् । श्रेष्ठी पप्रच्छ यं यं च तं तं सोऽचकथद् द्रुतम् ॥११॥ ततः श्रेष्ठी व्ययन् भूरि-विभवं लसदुत्सवम् । तिस्रः पुत्रीर्ददौ श्रीद-वराय धनसूनवे ॥१२॥ वर्षद्वये गतेऽकस्मादुत्पन्ने विषमामये । चिकित्सितोपि वैद्यैः स पञ्चत्वमगमत्क्रमात् ॥१३॥ * यतः-मातापिता भैषजमिष्टदेवो विद्याप्रियानंदनबान्धवाश्च । गजाश्च भृत्या बलपद्मवासे नेशा जनं रक्षितुमन्तकाले ॥ * अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः सम्प्रयोगश्च सर्व पापविजृम्भितम् ॥१५॥ है ततस्तिस्रः सहोदर्यः मिथः प्रोचू रहः स्थिताः । अस्माभिर्न कृतं पुण्य-मखण्डं पूर्वजन्मनि ॥१६॥ तेनेदानीं समायात वैधव्यं नः कुकर्मतः । अखण्डं चेद् विधीयेत पुण्यं वरं तदा भवेत् ॥ १७ ॥ * यतः-पत्यौ मृतेपि या योषिद् वैधव्यं पालयेत् क्वचित् । सा पुनः प्राप्य भर्तारं स्वर्गभोगान् समश्नुते ॥१८॥5 * मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १९ ॥॥ ध्यात्वेति ताः सहोदर्यो भावारीन् जेतुमन्वहम् । धर्मकर्म क्रियास्वेव मस्थापयन् मनो निजम् ॥२०॥ इतः संसदि मोहस्य जगादेति स्मरानुगः । शश्वत श्रेष्ठिसुतास्तिस्र-स्तथा धर्म वितन्वते ॥२१॥
SSTSEITSC5252SSESESTES
1१०७॥
For Private and Personal Use Only