________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एवं श्रीसम्भवप्रोक्तं वचः श्रुत्वा जना मुदा । बहवः क्षीणकर्माणः कल्याणनगरी ययुः ॥३५॥
-*
शत्रुञ्जय कल्पवृ०
॥१०९॥
ISESTSESTSESPSSISCUSSESS
॥ श्री अभिनन्दनस्य शत्रुञ्जयागमनसम्बन्धः ॥ विहरन्नेकदा पृथच्या-मभिनन्दनतीर्थकृत् । सिद्धाद्रौ समवासापीत् भूरिसंयतसेवितः ॥१॥ धर्म श्रोतुं समेतेषु भव्येषु बहुष्वन्यदा। अभिनन्दनतीर्थेशो जगौ भव्यागिशर्मणे ॥२॥ एकेऽह्निभ्यां जना लक्ष्मी हस्ताभ्यां मौलिना धिया । अर्जयन्ति क्रमात्तत्र पादाभ्यामजने कथा ॥३॥ वीणापुरे वणिग् भीमो दुःस्थो महेभ्यभूभुजाम् । लेखं लात्वा बजत्येव दूरदेशे श्रियः कृते ॥ ४ ॥ प्राप्य लेखाद् धनं स्वस्य निर्वाहं स वणिग् व्यधात् । लेखवाहक इत्यासीमाम तस्य जने कमात् ॥ ५ ॥ सन्ध्यादये प्रतिक्रान्ति गच्छन् मार्गे ततान सः । मध्याहे जिननाथस्य पूजां वितनुते स्म च ॥६॥ गुरुयोगो भवेद् यत्र तत्र श्री गुरुपादयोः । वितीर्य वन्दनं नीरमपि पिबति (व्ययति) सर्वदा ।। ७ ।। वने तथाविधे दुःखो-पार्जितं धर्मकर्मणि । एकं लौहडिकं सोऽपि व्ययति स्म सुभावतः ॥ ८॥ एवं पद्भयां धनं भीमो ऽर्जयित्वा धर्मकर्मणि । व्ययित्वा च वृषं कृत्वा स्वर्गलोकेऽगमद् वणिग् ॥९॥
2525525STSESSSSSSSESTI
॥१०९॥
For Private and Personal Use Only