________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ० ॥ १०५ ॥
125252252525
35252525525:
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री अजितजिन-शत्रुञ्जय समागमनसम्बन्धः ॥
अजिततीर्थकृत् भव्य-जनान् भूरीन् प्रबोधयन् । आगात् शत्रुञ्जये तीर्थे भव्याङ्गिमोक्ष हेतवे ॥ १ ॥ सालत्रये कृतेऽमन्यैर्हेमरूप्यमणीमये । उपविश्याऽजितस्वामी धर्ममाख्यातवानिति ॥ २ ॥ * वरपूजया जिनानां धर्मश्रवणेन सुगुरुसेवनया । शासनभासनयोगैः सृजन्ति सफलं निजं जन्म ॥ ३ ॥ अवाप्य धर्मावसरं विवेकी कुर्याद्विलम्बं नहि विस्तराय । ततो जिनस्तक्षशिलाधिपेन रात्रिं व्यतिक्रम्य पुन र्न नेमे ॥४॥ तथाहि - छद्मस्थावस्थितो नाभि-पुत्रस्तक्षशिलान्तिके । कायोत्सर्गे स्थितः सायं स्वकर्मक्षयहेतवे ॥ ५ ॥ वनपालाननाद् बाहु-चलिर्ज्ञात्वाऽऽगमं पितुः । दध्यौ प्रभोर्नतौ रात्रौ शोभा भवति नो मनाग् ॥ ६ ॥ तेनाहमुषसि न्यक्ष- विभूत्या चरणौ प्रभोः । वन्दिध्ये कृतशोभायां नगर्यां भूरिभूपयुग् ॥ ७ ॥ सामग्रीं रुचिरां कृत्वा बाहुबलि : सदुत्सवम् । वन्दितुं वृषभं यावद चालीद् बहुभूषयुग् ॥ ८ ॥ इतस्तावत् प्रगे स्वामी वायुवच्चलितोऽग्रतः । तत्राऽऽयातः सुतस्तात मनीक्ष्येत्यरुदत् स च ॥ ९ ॥
स्वामिन् ! किं न त्वयाऽदर्शि दर्शनं स्वं ममैकशः । अलक्ष्यत्वं कथं जातो दृग्पथात् साम्प्रतं प्रभो ! ॥ १० ॥ इत्यादि विलपन् बाहुबलिः सचिवपुङ्गवैः । वारितः कारयामास स्तूपं जिनाविराजितम् ॥ ११ ॥ युग्मम् ॥ धर्मेच्छुर्यो जनश्चक्रे विलम्बं क्षणमेककम् । स एवं शोचति स्वस्मिन् बाहुबलिनरेन्द्रवत् ॥ १२ ॥
For Private and Personal Use Only
157725525525252555e5e5esel
॥ १०५ ॥