________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
पुरो धनुःपञ्चशत्या सप्तपाषाणकुण्डिका । ततः सप्त क्रमान् नीत्वा कुर्याद्वलिविधिं बुधः ॥ ३१ ॥ शिलोत्पाटनतस्तत्र कस्यचित् पुण्यशालिनः । उपवासद्वयेन स्यात् प्रत्यक्षा रसकूपिका ॥ ३२ ॥ श्रुत्वैतत् सुन्दरो गत्वा तीर्थे तस्मिन् गुरूदितम् । तपश्चक्रे तथा प्रादु-रभूत कूपीसुरोऽचिरात् ॥ ३३ ॥ जगौ सुरस्तवेदानीं तुष्टोऽस्मि रसकूपिकाम् । दर्शयिष्याम्यहं तुभ्यं गृहाण रसमञ्जसा ॥ ३४ ॥ रसभारत्रयं स्वर्णकरं प्राप्य ततस्तदा । आगतः स्वपुरेऽकापीत् सुन्दरः कनकं बहुम् ॥ ३५ ॥ सुरोक्त्या सुन्दरो माता-पित्रोभक्तिपरः सदा । प्रासादं कारयामास कैलासगिरिसोदरम् ॥ ३६ ॥ तन्मध्ये शान्तिनाथस्य प्रतिमां रैमयीं वराम् । त्रिंशद्भारमितामस्था-पयत् सुन्दरनैगमः ॥ ३७॥ प्रतिमा प्रवरां स्वर्ण-मयीं शत्रुञ्जयाचले । कारयित्वाऽर्हतः शान्ते-गेंहे सोऽतिष्ठिपन्मुदा ॥ ३८ ॥ सुन्दरो विस्तरात् मातृ-पितृभ्रातृसमन्वितः । यात्रां वितनुते सिद्ध-पर्वते भूरिरैव्ययात् ॥ ३९ ॥ तत्र शान्तिजिनस्याग्रे श्रीशान्ति ध्यायतः सतः । सुन्दरस्याभवज्ज्ञानमव्ययं पातकक्षयात् ॥ ४०॥ देवतादत्तलिङ्गः सन् सुन्दरः केवली तदा । तथा दिदेश सर्वज्ञा-गमोपदेशमादरात् ॥४१॥ यथा लक्षत्रयी वाचं-यमानां शृण्वतां वृषम् । उत्पेदे केवलज्ञानं विश्वत्रयप्रकाशकम् ॥ ४२ ॥
- -------- - ----- --------- -
SSESESESEASES2SSZESGSZS:
C2STISSESES
॥९३
For Private and Personal Use Only