________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥९२॥
ISPSSUSESTSESSZISZSSZ52
* यतः-"वज्रलेपस्य मूर्खस्य नारीणां मर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥१९॥ चतुर्थस्तनयो निःस्वी-भूतस्त्यक्त्वा पुरं निजम् । ययौ शत्रुञ्जयोपान्ते भीमे कक्षे दिवात्यये ॥२०॥ प्रातस्तत्र यतीन् दृष्ट्वा गत्वा नत्वा सुभक्तितः । मुख्यसाधोः पुरोऽश्रीपी-देवं सुन्दरनैगमः ॥ २१॥ अस्मिन् शत्रुञ्जये तीर्थे श्रीशान्तिदृष्टिगोचरे । रसकूपी समस्त्येव स्वर्णकृद्रसपूरिता ॥२२॥ यः श्रीशान्तिजिनस्याग्रे षष्ठादि कुरुते तपः । कुल्माषान् पारण भुङ्क्ते विंशतिप्रमितान् पुनः ॥ २३ ॥ रसकूपीसुरस्तस्य स्मरतः शान्तिमहतम् । दर्शयेच्च रसस्याशुकरि स्वर्णविधायिकाम् ॥ २४ ।। उक्तं च-श्रीशान्तिचैत्यस्य पुरो हस्तानां त्रिंशतः पुनः ।
पुरुषैः सप्तभिरधः (नीचे) खानीद्वेस्वर्णरुप्ययोः ॥२५॥ ततो हस्तशतं गत्वा पूर्वद्वारेऽस्ति कूपिका । अधस्तादष्टभिहस्तैः श्रीसिद्धरसपूरिता ॥ २६ ॥ श्रीपादलिप्ताचार्येण तीर्थोद्धारकृते किल । अस्ति संस्थापितं रत्न-सुवर्ण तत्समीपगम् ॥ २७॥ पूर्वस्यामृषभविम्बा-दधश्चर्षभकूटतः । धनूंपि त्रिंशतं गत्वोपवासांस्त्रीन् समाचरेत् ॥२८॥ कृते बलिविधानादौ वैरोटथा स्वं प्रदर्शयेत् । सदाज्ञया समुत्पाटय शिलां रात्रौ प्रविश्यते ॥ २९॥ तत्रोपवासतः सर्वाः सम्पद्यन्ते च सिद्धयः । तत्रर्षभार्चानमनाद् भवेदेकावतारभाक ॥३०॥
B3252SISSISESESES255PSS2
For Private and Personal Use Only