SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie शत्रुञ्जय कल्पव० ॥८९॥ ESZSSTSE255252S क्षितिभूषापुरे वीर-भूपतेायशालिनः । पत्नी पद्मावती पुत्रः पद्मसेनाभिधोऽभवत् ॥१॥ वर्धमानः क्रमात पित्रा पुत्रः पण्डितसन्निधौ । पाठितोऽभूद्यथाधर्म-कर्मशास्त्रेषु कोविदः ॥२॥ * यतः-"जायम्मि जीवलोए दो चेव नरेण सिक्खियब्वाई। कम्मेण जेण जीवइ जेण मुओ सुग्गई जाइ ॥३॥ भूपतीनां सुताः पञ्च शतानि परिणायितः । पुत्रः पित्रा सुखी जातो दोगुन्दुक कुमारवत् ॥४॥ सन्ततं गीतनृत्यादि कारयन् नृपनन्दनः । अस्तोद्गतो न जानाति मार्तण्डस्य मनागपि ॥५॥ एवं सुखातिलीनस्य कुमारस्य निरन्तरम् । राजयक्ष्माभिधो रोगो जातस्तीवात्र्तिकारकः ॥६॥ ततश्चिकित्सका राज्ञाऽऽकारिताः सुतरुकछिदे । औषधानि ददुस्तस्य यानि तानि मुधाऽभवन् ॥७॥ राज्ञाऽऽकार्योदिता विज्ञा गणकाः पुत्ररुकछिदे । जगुस्तव सुतस्यै ति क्षयं रोगोऽष्टभिर्दिनः ॥ ८ ॥ तेषामप्युदितं नैव मिलितं च यदाऽभवत् । तदा शान्तिकपौष्टयादि कारयामास भूपतिः ॥९॥ तस्मिन्नपि मुधा जाते कृत्ये नन्दनदुःखतः । महीपालोऽभवद्दःखी वाढं नारकजीववत् ॥१०॥ मेलयित्वा ततः सङ्घ भूपः पुत्रसमन्वितः । ययौ शत्रजये तीर्थे नन्तुं श्रीजिननायकान् ॥११॥ गेहे गोमुखयक्षस्य कृत्वा क्षपणसप्तकम् । उपविष्टो जगौ भूप-सुनुरेवं तदग्रतः ॥ १२ ॥ भो यक्ष ! वक्षि मे रोगच्छिदे त्वमौषधं हि तत् । येन मद्विग्रहाद् याति राजयक्ष्मा क्षयं क्षणात् ॥१३॥ SSSSSSSSSSSSSS For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy