________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ ८८ ॥
www.kobatirth.org
तपन्तः सन्ततं तीव्रं तपोध्यानपरायणाः । गमयन्ति सुखात् काल- मर्जयन्ति शिवश्रियम् ॥ २३ ॥ औषधीभिः सदोद्योतो जायते तत्र सन्ततम् । केलिं कुर्वन्ति यक्षाद्या निर्जरा भूरिशो मुदा ॥ २४ ॥ विलोक्य कौतुकान्येवं भीमः पदे पदे मुदा । पूजयित्वा प्रभुं झम्पां शैलाद्दातुं यदोद्यतः ।। २५ ।। तदा तत्र स्थितो ज्ञानी जगादेति नरोत्तम ! | आत्मनो घाततो जीवा न छुटन्ति स्वकर्मतः ॥ २६ ॥ तेन त्वं कुरु तीव्रं तु तपः ते स्याद्यतः सुखम् । चन्द्राविवरे गत्वा कुरुष्व च तपोऽनिशम् ॥ २७ ॥ तत्र गत्वा तपस्तस्य भीमस्य कुर्वतः सतः । श्रीपुरस्याऽभवद्राज्यं चतुरङ्गचमृयुतम् ॥ २८ ॥ राज्यं कृत्वा चिरं शत्रुञ्जये गत्वा तं स च । लात्वा तपो व्यधातीयं चन्द्राह्नविवरस्थितः ॥ २९ ॥ तत्र भीमऋषेस्तीव्रं तपो वितन्वतः सतः । बभूव केवलज्ञानं जगत्त्रयावलोककम् ॥ ३० ॥
तत्रैत्य निर्जरा ज्ञान्युत्सवं चक्रुस्तथाssदरात् । यथा तं पश्यतां नृणां ज्ञानमासीन्निरत्ययम् ॥ ३१ ॥ * तत्र भीमोऽगमन्मुक्तिमन्येऽपि बहवः पुनः । साधवश्च ययुः केचित् प्रथमादिसुरालये || ३२ ||
-फ्र
5
---
-फ्र
॥ श्री औषधविषये पद्मसेननृपकथा ||
ओसह 'त्ति-व्याख्या - औषधयो रोगाद्यपहाः सन्ति, तथाहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
PS2585252525252525252525
॥ ८८ ॥