________________
Shri Mahavir Jain Aradhana Kendra
K+++**~·
*********
www.kobatirth.org
' भणितम् ' उक्तमागमे गणधरादिभिः । इति गाथार्थः ॥ ५ ॥
यदुक्तं तदेवाह -
सम्मत्तदायगाणं दु-पडियारं भवेसु बहुए । सव्वगुणमेलियाहिं वि, उवयारसहस्सकोडीहिं ॥ ६ ॥
व्याख्या—' सम्यक्त्वदायकानां दुष्प्रतीकारम् ' इति पूर्ववत् । कुत्र कैर्दुष्प्रतीकारम् ? इत्यत आह- ' भवेषु मनुजदेवादिजन्मसु ' बहुषु ' संख्यातिक्रान्तत्वेन प्रभूतेषु वर्तमानाभिः सर्वगुणमलिताभिः द्विगुण- त्रिगुणाभिः, यावद - नन्तगुणाभिरपीत्यर्थः, उपकारसहस्रकोटीभिः भवे विधीयमानदान - संमानादिगुणान्तर कोटी सहस्रैरपि तदुपकारसंवादको - पकारान्तरकरणाऽभावादिति भावः । तदुक्तम्- " दुष्प्रतीकारौ माता, पितरौ - स्वामी गुरुश्च लोकेऽस्मिन्' तत्र गुरुरिहाऽमुत्र च सुदुष्करतरप्रतीकारः तत्किं सर्वथा तेषां प्रतिकर्तुमशक्यमेव, उत कथञ्चिच्छक्यमपि ? तत्रोच्यते कथञ्चित्सम्यक्त्वादेः प्रतिपतितानां तत्रैव पुनः स्थापनेन, नान्यथा । तदुक्तम् - " जो जेण जम्मि ठाणम्मि ठाविओो दंसणे व चरणे वा । सो तं चुतं - मि व वि ं भवे निरिणो ।। १ ।। " तदेवं परमोपकारिषु गुरुषु सर्वादरेण शुश्रूषा संगता । इति गाथार्थः ।। ६ ।।
मदीप्तिः ।
| हेयोपादेयतत्त्वावगति सुखविधावुच्छव सद्दपिकला, स्थूलाज्ञानान्धकारास्तरणादिनमणिप्रोद्यदुद्दा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*********