________________
Shri Mahavir Jain Aradhana Kendra
दुस्थानक
प्रकरणम्
॥ ३५ ॥
****
+19+96
www.kobatirth.org
ब्दार्थः, ' न' नैव ते श्राद्धाः, 'तुः ' पुनरर्थो योजित एव, ' संग्रहणं ' भाएडशालादिषु बहुकालस्थापनम् ' इच्छन्ति ' अभिलषन्ति कर्तुमिति शेषः । न चात्र 'धन्नाइणं तु संगहणं ' इति भाष्येण विरोधः शङ्कनीयः, तत्र हि खादन-मरणाधनेकाsपायाकुलत्वेन द्रव्यार्जनानुपायत्वमश्वादिसंग्रहस्य प्रत्यपादि; धान्यादिसंग्रहस्य तु प्रायस्तथाविधाऽपायाभावाद् द्रव्याजनोपायत्वमात्रं, न तु तत्संग्रहस्य विधेयत्वम् । एतदेव च ' इच्चाइ अत्थुवाउ ' इत्याद्यभिदधता तत्रैव स्पष्टीकृतम्, तथाविधाsन्नादिव्यवहाराणां हि प्रचुरतरत्रमादिजीवात्यन्तसंसक्तिमत्तया भगवत्यादिषु लाक्षावाणिज्यत्वेन प्रतिपादनात् । विधेयाविधेयत्वचिन्ता तु द्रव्योपायाणां सूत्रे, तत्र च व्यक्तो निषेधस्तत्संग्रहस्य । न च व्याख्येयसूत्रनिषिद्धं भगवत्यादि - निषिद्धं च भगवतीवृत्तिकार एव भगवान् भाष्यकारस्तमनुज्ञास्यतीति संभवति, तस्माद् यथाव्याख्यानमेव सूत्रार्थ: समीचीन इति व्यवस्थितम् । इति गाथार्थः ॥ १४ ॥
तथा---
अंगोवरि उद्धारं, निच्छइ अइलाभयं मुणेऊणं । थेवेण वि लाभेणं, बंधेणं अहव रुक्केणं ॥ १५ ॥
व्याख्या—' अङ्गं ' ग्राहकस्य शरीरं तदुपरीति- तदेव लग्नकं विधाय विश्वासातिशयाद् यद्दीयते तद् श्रङ्गोपरीत्युच्यते । तादृशमुद्धारकमुक्तस्वरूपम् ' अतिलाभदं ' प्रचुरतरद्रव्यायनिदानं ज्ञात्वा मनसा विभाव्यापि ' नेच्छति ' नाभिलषति दातुमिति शेषः । कथं तर्हि ददाति १ इत्याह-' स्तोकेनापि ' अन्पीयसाऽपि लाभेन द्रव्यप्राप्त्या संभावितेन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***++******+++**
चतुर्थ स्थानम्
॥ ३५ ॥