________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मालमनस्याऽवैधव्यामिव्याकस्यानिषेधमाह । 'प्रथिताभरणं' बद्धालंकरणम् , भाभरणं तिलकादिनपुरपर्यन्तं समस्तमलकरणम् : अनेनापि कण्ठ-कर्ण-प्रकोष्ठाद्याभरणस्य समर्टकायोग्यस्य इतरस्याप्यनुगटस्याऽनिषेधमाह । अथवा एवं सकलमाभरणं गृहीत्वा 'मणकप्रावृताङ्गी' देशविशेषोद्भवसूक्ष्मवस्त्रभेदाच्छादितशरीरा, मङ्कणकाभिधानं तथाविधातिसूक्ष्मवस्त्रोपलक्षणार्थ, ततोऽतिसूचमवस्त्राच्छादिताङ्गीत्यर्थः । 'कुलवधूः' कुलाङ्गना 'कथं' केन प्रकारेण 'यातु' गच्छतु जिनमधने ?, उपलचणत्वाचाऽस्य साधूपाश्री' च ? नैव:। निरीमरणेऽपि शरीर एवंविधाच्छादिने प्रकटीवर्यवत्वेन मदनोदीपकता स्यात् , किं पुनः सकलाभरणतेति, तेन विशेषतस्तत्र सूक्ष्माच्छादननिषेध इति भावः । एतेन यद्येवंविधवेषा चैत्यादौ न याति, तहि कृतरण्डावेषा कुलाङ्गनापि यातु, इत्यादि जिनमतरहस्यानभिज्ञानां दुर्विदग्धानां सो. न्लुण्ठभाषितं परिहतमवसेयम् । मदनोद्दीपकतयाऽनुचितस्यैव निषेपात्, तदितरस्य तु जिनभक्तिविशेषाभिव्यञ्जकस्य विशिष्टतरस्याप्यनुज्ञानात् । इति गाथात्रयार्थः ॥ २०-२१-२२ ॥
उपसंहरबाहतम्हा विलयं वेसं, परिवजइ सावओ किमच्छरियं ।। नवरं सुसाविया उ, दुन्नियच्छं वजयंतीउ ॥ ___ व्याख्या-यस्माद् विकृतवेषः कामोद्दीपन-लघुताधापादकः, तस्माद्धेतोर्विकृत-विकारवन्तं शैलूषाधुचितं *'वे' नेपथ्यं 'परिवर्जयति ' परिहरति 'श्रावकः' श्रादः 'किमाश्चर्य' किं चित्रम् ? न किश्चिदित्यर्थः । सद्गुरुभ्यः
For Private and Personal Use Only