________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'मेदः' विशेषो वर्जनीयतया 'इह' शीलवश्वप्रक्रमे 'विकृतवचने' विरूपकभाषणविषये संभवतीति शेषः । इति | गाथार्थः॥ १० ॥
तमेवाहपाविद्रा रायाणो, दसवेससमत्ति जं सुए भणियं । रायगुरू सुरपाई, दासीए पई गुरू कह णु॥११॥
व्याख्या-'पापिष्ठाः ' पापीयांसो ' राजानः' नृपाः । कुतः १ इत्याह-दशवेश्यासमा:' पापनिधानत्वेन दशत्यक्षरिकातुन्या इति । एतद् यद् ' यस्मात् 'भुते' भागमे स्मृत्यादौ ' भणितं' उक्तं मन्वादिभिरिति गम्यते । तथा चागम:-"दशशुनासमं चक्र, दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १॥" भत्र चक्रं तिलपीडनयंत्रं तद्योगात्तैलिकोऽपि । तथा ध्वजयोगा ध्वजः कम्पपालः, तद्नेहे हि चिहार्थ दक्षिणापथे ध्वजो बध्यत इति कृत्वा । तथा ' राजगुरुः' नृपपूज्यपुरोहितादिरप्यम्, 'सुरापायी'मद्यपः, 'दास्याः पतिः'अगम्ययोषिदर्ता च । अतो ' गुरु: ' पूज्यः कथं नु' इति केन प्रकारेण संभाव्यते । दोषाकरत्वात्वाव । इति गाथार्थः ॥ ११ ॥
अथेहलोकबाधकान्युपसंहरन् परलोकबाधकान्याहएमाइ कुलच्छायग-वयणाणि विरुद्धयाणि विगियाणि। परलोगवाहगाणि उ, न जिणोधम्मो न निव्वाणं
व्याख्या-' एवमादीनि ' एतत्प्रभृतीनि । वकारलोपो विभक्तिलोपश्चात्र प्राकृतत्वात् । मादिशब्दान्नृपभार्या स्वैरिणी,
For Private and Personal Use Only